व्यतिविवेके द्वितीयो विमर्शः ।। तस्य प्रक्रान्तत्वाभावाद् मृगाणामित्यत्र मृगराजानामित्येवमनुक्तेश्च । किञ्च मृगेषु राजत्वं भवति सिहानां नतु शब्द इति वीर्यादग्रत्व तद्भिशेषणमनुपपन्नमेव तस्या- थॆनिष्ठत्वेनेपिपतॆ.। तेन न सिहाना न शृगाणा न वीर्योदग्रत्वस्य च राजशब्दशब्दे- नान्वय, सङ्गच्छत इत्यवाच्य एवासौ । तेन राजभाव इति मृगेबिति वा वाच्ये तदवचनं दोवः । यथा ----
“तपेन वर्षाः शरदा हिमागमॊॊ वसन्तलक्ष्म्या शिाशर, समेत्य च । प्रसूनक्लूप्ति ददतः सदर्तव. पुरेऽस्य वाम्तव्यकुडुम्बिता दधु. ।।
इति । अत्र हि तपतोऌिङ्गविशेषानुमतपुरुषभावन्य कर्तृत्वात्प्राधान्य वक्तुमुचितम् , व।र्णा च स्त्रीत्वस्य सहभावेन निर्देशादप्राधान्यम् , यथान्येषा हिमागमादीनाम् , अन्यथा तेषा कुडुबिरूपतानुपपत्ते , न च तथोतमिति तस्य वाच्यम्यावचनं दोषः । ‘ "क्रिमवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।।
प्रकृतिः खलु सा महीयसः सहृते नान्यसमुन्नति यया ।"
इत्यत्र महीयसामिति बहुवचन वा वीप्सासमानफलं प्रयोक्तव्यम् , यथा--
"यावदर्थपदा वाचमेवमादाय माधव । विरराम महीयांस. प्रकृत्या मितभाषिणः ॥"
इत्यत्रार्थान्तरन्यासे सर्वादिशब्दो वा यथा -- ‘ "छायामपास्य महतीमपि वर्तमाना-
मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपनतमप्यपचीयमानं । वर्धिष्णुमाश्रयमनागतमप्युपैति ।”
इत्यत्र अन्यथा समर्थकस्य प्रकृतिमहीयत्त्वस्य हेतोरन्यसमुन्नत्यसहिष्णुत्वलक्षणे साध्येन सर्वोपसंहारव्याप्तिर्न प्रतीयेत । तस्मादेवमत्र पाठः परिणमयितव्यः प्रकृतिः खलु सा महीयसां न सहन्तेऽन्यसमुन्नति यया ।” इति ।। सर्वनामपरामर्शयोग्यस्यार्थस्य या पुनः ।। स्वशब्देनाभिधा दोषः स वाच्यावचनाभिधः ।। १ ० ० ।। यथा --