पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः। “शोकानलधूमसम्भारसम्भृताम्भोदभरतमिव बर्षति नयनवारिधाराविसर नर्गरम् ।" इति । अत्र हि शोकस्य केनचित् साधम्र्ये यदनलत्वेन रूपणं तत् तावद्रूप्यस्य सद्भावाद्युक्तमेव ! धूमस्य पुनर्न किञ्चिद् रूप्यमस्तीत्यवाच्य एवासौ यथा ‘शोकानलदाहभीतेव न हृदयमबतरती त्यत्र । रूप्यान्तरसद्भावे तु न कश्चिद् दोषः । यथा-- तस्या धौताञ्जनश्यामा हृदय दहतोऽनिशम् । शोकाग्नेर्धूमलेखेव गलत्यश्रुकणावलि. ।। इति । अनलकार्यत्वात् तम्य वाच्यत्वमदुष्टामिति चेन्न । अनवस्थापत्तेरतिप्रसङ्गा- च्चेति तस्य वचन दोष एव । यथा च ---- | तप्ते महाविरहवह्निशिखावलीभि- रापाण्डुरं स्तनतटे हृदये प्रियायाः ।। इत्यादि ।। उपचारसहेकैव रूपकम्येप्यते क्रिया । यथानलम्य दाहादिर्न कार्यादिरसम्भवात् ।। १०२ ॥ इति सङ्ग्रहश्लोक. । “दृढतरनिबद्धमुष्टेः कोशनिषण्णाभ्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ।। इति । अत्र कृपणकृपाणयोराकारमात्रकृतो व्यतिरेक उक्तः । स चायुक्तः, द्विविधो ह्याकारार्थः सन्निवेशलक्षणोऽक्षरविशेषलक्षणश्च । तत्राद्यस्तावदिहानुपादेय एव, सहानवस्थानवतोरर्थयोस्तव्यभिचाराभावादिति नासौ सचेतसा चमत्कारमावहति । द्वितीयस्तु न सम्भवत्येव, अक्षरकृतविशेषस्थ भेदाभेदब्यवहारस्य शब्दैकाविषय- त्वात् । यद्यपि हि स्वरूपमपि शब्दस्यार्थ एव । यदाहुः --- “विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।। न सत्तयैव तेऽर्थानामगृहीताः प्रकाशका. ।।” इति, तथापि तस्य तात्पर्येणाविवक्षितत्वात् न तदपेक्षमर्थविषयत्वमस्य शक्यं व- क्तुम् । वाच्यदशापत्तावपि तस्य शब्दस्वरूपतानपायात् इति । यथा च --- “येनालड्कृतमुद्यानं विहारेणीमुना तव ।। तेनैव निर्विकारेण करिकुम्भनिभौ कुचौ ।।"