एतत् पृष्ठम् परिष्कृतम् अस्ति
व्यक्तिविवेके द्वितीयो विमर्शः । १०३
" दशपूर्वरथ यमाख्यया दशकण्ठारिगुरु र्पचक्षते ।"
इत्यादौ र्द्ष्टयेयम्।।
“या घर्मभासम्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनै. । कृष्णापि शुद्धेरधिक विधातृभि- र्विहन्तुमंहांसि जलैॱ पटीथर्सऻ ॥”
इत्य धर्मभासस्तनयत्वादीना शीतलत्वादीनां च धर्माणामेकाश्रयत्वेन विरोधो वक्तुं युक्तो न भिन्नायत्वेन, तम्य तथानुपपत्ते । नचासौ तथोक्तः, एकेषां यमुनाश्रय- त्वेनान्येषां जलाश्रयत्वेनोपादानात् । यद्यपि यमुनायास्तञ्जलानां च तात्त्विकमेवैक्यं, तथापि तेषा शब्देन कर्तृकरणतया निर्देञऻच्छाब्दं भिन्नत्वमस्स्येव । शाब्द एव विरोधो वक्तुमिष्ट. कवेरिति तस्यऻवाच्यम्य वचन दोषः । तेनायमत्र पाठः क्षेयान् । "या घर्मभासस्तनयापि शीतला स्वसा यमस्यापि जनस्थ जीवनी । कृष्णापि शुद्धेरधिकं विधायिनी विहन्तुमंहांसि जलें. पटीयसी ॥" यथा च -- " रुरुचेॱ हिमाचलगुहामुखोन्मुखः पयसां र्पवाह् इव सौरसैन्धवः ।" अत्र हि पयसामिति यर्त्पवऻहम्य सम्बन्धितया विशेषणं तदवाच्यमेव तस्य हि तॱ- स्सम्बन्धिताव्याभिचारात् । यच्चान्न सौरसैन्धव इति विशेषणं तत्र तद्धितनिर्देशोऽप्य- वाच्य एव षष्टीनिर्देशेनैव तदर्थावगतिसिद्धेः । तेन ‘सुमहान् र्पवऻह इव जहु- जन्मनः' इत्यत्र युक्तॱ पाठः । यथा च -
" लक्षीकृतस्य हरिणस्य हरिर्पभावः र्पेक्ष्य स्थितां सहचरी व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः र्पतिसञ्जहार ॥" " रेहयिष्यति तं लक्ष्मीर्नयविमुखो नापदां पदं क इव । स च तय रिपुरेवमतो भावी तस्यापि तद्विरहः ॥"
इत्यत्र र्पतिज्ञानिगमनयोः पौनरुक्त्यम् । र्पसिद्धव्यासिकस्य हेतोर्धर्मिण्युपसंहारव- चनेनैव तदुभयार्थसिद्धेरिति । यदुक्तं, 'र्पतिज्ञाया एव तावर्दम्यमनॎर्थऻयऻ वचनं १ ‘लङ्घयिष्यति' इति खपुस्तके पाठः.