पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३ व्यक्तिविवेके द्वितीयो विमर्शः । पुनर्वचनं किं पुनरस्याः पुनर्वचनमित्यपार्थक निगमनम्' इति । इह तु न दोषः - "यो यत्कथाप्रसङ्गे छिन्नच्छिन्नायतोष्णनिश्वसित ।। स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु' ।।" इति । यत्राप्रस्तुतादेव प्रस्तुतस्यार्थस्य प्रतिबिम्यादिव बिम्बस्य साम्यावगतिर्न तत्रोसौ वक्तव्यतामवतरति तदभिधानसामथ्याेेदेव तदवगमाद् उक्ताववाच्य्व- चनदोषानुषङ्गात् । यथा--- "आहूतेषु विहङ्गमेपु मशके नायान् पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां पैदम् । खद्योतोऽपि न कम्पते प्रचछितु मध्येऽपि तेजस्विनां । धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ।।" इत्यत्र प्रभुमिवेत्युपमानभाव. प्रभोः । यथा च ---- "द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधाथ्युेपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥” इत्यत्र भवदर्थस्योपमानभाव. । प्रस्तुतात् तु तदन्यस्य प्रतीतिरनिबन्धना न सम्भ- वत्येवेति तत्र तस्योक्तिरुपपद्यत एव । "निम्नमुन्नतमवस्थितं चलं वक्रमार्जवगुणान्यितं च यत् । सर्वमेव तमसा समीकृतं धिड् महत्वमसतां हतान्तरम् ॥” इत्यत्र तमसः प्रस्तुतत्वात्तदुक्तेरसत्पुरुषमहत्त्वप्रतीतावसामार्थ्यमिति तद्वक्तव्यमेव भवतीति न तत्रावाच्यवचनदोषानुषङ्गः । अप्रस्तुतोक्तिसामर्थ्यात् प्रस्तुतं यत्र गम्यते । प्रतिबिम्बाद्यथा बिम्बं तस्योक्तिस्तत्र नेप्यते ॥ १०६ ॥ प्रस्तुतात् तु तदन्यस्य प्रतीतिरनिबन्धना । न सम्भवत्येवछ ततस्तदुक्तिस्तत्र शस्यते ॥ १०७ ॥ इति सङ्ग्रहछोकौ । किञ्च यत्राप्रस्तुतप्रशंसायामप्रस्तुतस्यार्थस्य श्लेषमुखेनासन्ने बोतकषोंऽपकपों वा तदितरस्य तथाप्रतिपत्तयेऽभिधीयते नासौ तात्त्विक इति न तत्र तामाधातुमुत्सहते तयोर्बिम्बप्रतिबिम्बभावेनावस्थानोपगमाद् इत्यवाच्य ए- वासौ । तस्य वचनं दोषः । तत्रोत्कर्षे यथा--- "सद्वृक्त्रे महति स्वभावसरले बद्धोऽसि यस्मिन् गुणै- र्युक्ते संयमहेतुतामुपगतो यत्रापि विश्राम्यसि ।

        ।‘त्रापि' इति खपुस्तके पाठः,     ‘धुरम्' इति खपुस्तके पाठः।