पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । तस्याक्षेपपरम्पराभिरभितो डोलायमानस्थिते- रालानस्य मतङ्गजैष कतमो निर्मूलने दुर्ग्रहः ॥ इत्यत्र सद्वृत्तादिभिर्विशेषणैररुन्तुदस्यालानस्याप्रस्तुतस्य श्लेषवलपकल्पितेन सदा- चारत्वादिधर्मसम्बन्धेनोत्कृषऽभिहितः, न चास वास्तव इति तदुन्मूलनग्रहो ग- जयोचित एव न दुष्ट इत्युपालम्भयोग्यत्वं तत्रासिद्धमेव । यच्च बिम्बभूते तस्मि- झसिद्धं, तत् कथं प्रस्तुतेऽर्थे दर्पणप्रातमे प्रतिबिम्बभिवेदिति श्लेषोत्कर्षस्यावाच्य- स्य वचनं दोषः । तस्माच्च्लेषमनादृत्यैव निराकाहूकाकुक्रमेण किंशब्दस्यार्थो व्या- ख्येयः । तेन ‘कतमो निर्मूलने दुर्ग्रह' इत्यत्र न खलु कश्चिदित्युचित एवायं निर्मू- लनेऽभिनिवेशस्तवेत्ययमर्थोऽवतिष्ठत इति । एवमपकर्वेऽपि द्रष्टव्यम् । सर्वनाम्ना परा- मृष्टस्याप्यर्थस्य यत्पुनः स्वशब्देन वचनं सोऽवाच्यवचन दोषः यथा ‘उदन्व- च्छिन्ना भूस्स च निधिरपां योजनशत'मित्यत्र निधिरपामिति । यस्यार्थस्य समासो- क्तित एवोपमानभावोऽवसितो न तस्यासौ पुनर्वाच्यो भवति, अवाच्यवचनदोषानु- पङ्गात् । यथा---

  • अळिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्किनिपातिभिरङ्कितः ।।

| नखल शोभयति स्म वनस्थ न तिलकस्तिलकः प्रमदामिव ॥” । इत्यत्र तिलकप्रमदयोरेकतस्मिन् वाच्ये यदुभयोर्वचनं तदवाच्यवचनं दोषः । ये तु गण्डस्योपरि पिटकोद्भेदमिव तत्राप्यार्थमेव तस्योपमानत्वमुपरचयान्त, नमस्तेभ्यः काविवरेभ्यः । तद्यथा-

  • जङ्घाकाण्डोरुनाळो नखकिरणलसत्केसराळीकराळः

प्रत्यग्रालककामाप्रसरकिसलयो मजुमञ्जीरभृङ्गः ।। भर्तुर्वृत्तानुकारे जयति निजतनुस्स्वच्छलावण्यवापी- सम्भूताभ्भाजशोभां विदधभिनवो दण्डपादो भवान्याः ।।” इति । अत्र हि समासोक्त्यैव दण्डपादस्याम्भोजतुल्यत्वेऽवगते यत् तस्याम्भोज- शोभां विदधदिति पुनर्वचनं तद्वान्च्यवचनदोषतां नातिपतति । यत् पुनस्तत्राप्य- म्भोजस्यार्थमुपमानत्वमुपात्तं तदध्ययुक्तमेव, तम्योरुनाळत्वादिधर्मसम्बन्धोपगमयो- ग्यतानुपपत्तेः । केवलमेकेनैव समासान्तर्भावाद् वापीसम्भूतत्वेनास्य विशेषणविशे- व्यभावः सङ्गच्छते । किन्तु समास एवात्रोक्तनयेनानुपपन्न इवावभासते सचेतसां प्रक्रमभेदप्रसङ्गादित्युक्तम् । न च दण्डपादस्य तत्सम्बन्धो घाटिष्यत इति शक्यते