पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्शः । इत्यत्र समासान्तर्गतेन वदनशब्देनैकेनैव वदने वाच्ये यद् बहुभिः शब्दैम्तस्य वचनं सोऽवाच्यवचन दोषः । तथा हि वदन च तत् पदार्थश्चासाविति कर्मधारयो वा कल्प्येत, बदनपदस्यार्थ इति तत्पुरुषो वा । तत्राद्यस्तावदर्थयोरन्योन्यव्यवच्छे- शव्यवच्छेदकभावाभावादनुपपन्नः, द्वितीयोऽपि प्रयोजनाभावात् । न हि समासे सत्यसति बार्थस्य कश्चिद्विवशेषोऽवगम्यते अन्यत्र प्रतिपरिगौरवादित्यवाच्यवचनप्र- कार एवायमिति । यथा च--- कुशं द्विषामङ्कुशवन्तु विद्वान् "इति यत्स्वरूपानुवादैकफलं फल्गु विशेषणम् । अप्रत्यक्षायमाणाथै स्मृतमप्रतिभोद्भवम् ॥ १ ११ ॥ तदवाच्यमिति ज्ञेय वचन तम्य दूषणम् ।। तद् वृत्तपूरणायैद न कवित्वाय कल्पते ।। ११२ ॥ यथा ---

"ककुभां मुखानि सहसोज्ज्वलयन् दददाकुलत्वमधिकं रतये ।

| अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।। इति । अत्र हि यदत्रिनयनप्रभवत्वामिन्दोर्विशेषण तत् स्वरूपमात्रानुवादफलमित्य- वाच्यमेव तस्य तदव्यभिचारात् । न चाव्यभिचारिणोऽपि ततस्तस्योत्कर्षः कश्चि- द्विवक्षितः कवेः, यथा---

  "अत्रेर्लोचनशुक्तिमौक्तिकमणेर्देवात्सुधादीधिते-
   गोउत्रं हेहयभूभुजा यदुदगात् तस्मिन्नभूदर्जुनः ”

इत्यत्र सुधादीधितेरिति तस्यावाच्यस्य वचनं दोषः । यच्चात्र दहनस्यापर इति व्य- तिरेकप्रतीतिफलदं विशेषणं तदवाच्यमेव तस्यात्रिनययप्रभव इति नञ्समासेनैव प्रतिपादितत्वात् । तस्मादुदित इति तत्रानुगुणः पाठः । यथा च-

   "नाडीजङ्घो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन" 

इति । अत्र हि तच्छब्दपरामर्शो गौतमस्यावाच्य एव तमन्तरेणाप्युपकारस्य तद्विषयभावावगतेः । तेन परमुपकृतवानिति वरमत्र युक्तः पाठः । यथा च--- 'कटस्थलप्रोषितदानवारिभिरिति । अत्र हि दानवारिप्रवासस्य यदेतत् कटस्थल- मवधिभावेन विशेषणमुपात्तं तन्न वाच्यमव्याभिचारात् । एवम् -

   "उत्फुल्लकमलकेसरपरागगौरझुते ! मम हि गौरि ! ।'
    अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन ||"

इत्यत्रापि द्रष्टव्यम् । उत्फुल्लकेसरगौरशब्दानां पौनरुक्त्यात् ।