पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके द्वितीयो विमर्श: । कथं तर्हि स्वभावोक्तेरलङ्कारत्वमिप्यते । न हि स्वमावमात्रोक्तौ विशेषः कश्चनानयोः ।। १ १ ३ ।। उच्यते वस्तुनस्तावह्वरूप्यमिह विद्यते । तत्रैकमैत्र सामान्यं यद्विकल्पैकगोचरः ।। १ १४ ॥ स एव सर्वशब्दानां विषयः परिकीर्त्तितः । अत एवाभिधेयं ते श्यामले बोधयन्त्यलम् ।। ११५ ।। विशिष्टमस्य यद्रूपं तत् प्रत्यक्षस्य गोचरः । स एव सत्कविगिरां गोचरः प्रतिभामुवाम् ।। ११६ ॥ यतः- रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः ।। क्षणं स्वरूपस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः ॥ ११७ ॥ सा हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैकाल्यवार्तिनः ।। ११८ ॥ इत्यादि प्रतिभातत्त्वमस्माभिरुपपादितम् । शास्त्रे तत्वोक्तिकोशाख्य इति नेह प्रपञ्चितम् ॥ ११९ ॥ अर्थस्वभावस्योक्तिर्या सालङ्कारतया मता । यतः साक्षादिवाभान्ति तत्रार्थाः प्रतिभार्पिताः ॥ १२० ॥ “ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मिताः कथा नयनोपान्तविलोकितं च तत् ॥” इति । यथा च ---- "कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटिः कन्थरामातिरश्चीं लोलेनाहन्यमानस्तुहिनकणमुचा चञ्चता केसरेण । निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुत्क्तिस्तुरङ्ग- स्त्वङ्गत्पक्ष्माअलग्नप्रतनुबुसकणं कोणमक्ष्णः खुरेण ॥” इति । यथा वा ----- “श्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । | १, ‘मस्य' इति खपुस्तके पाठः, २. “चिन्तो’ इंति खपुस्तके पाठः,