पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Panturindi-Tueimentinutritayatim uvirailerwinnioall व्यक्तिधिवेके द्वितीयो विमर्शः। देभैरविलीद्वैः श्रमविवृतमुखभ्रशिमिः कीर्णवा पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुा प्रयाति ॥" सामान्यस्तु स्वभावो यः सोऽन्यालङ्कारगोचरः । मिष्टमर्थमलङ्कनुमन्यथा को हि शक्नुयात् ॥ १२१ ।। वस्तुमात्रानुवादस्तु पूरणैकफलो मतः। अनन्तरोक्तयोरेव यद्वान्तर्भावमर्हति ॥ १२२ ॥ यथायोगमयं दोषस्तेन पञ्चैव ते मताः । इत्यन्तरश्लोकाः । ता एता दोषजातयो महाकवीनामपि दुर्लक्षा इत्यवसीयन्ते । यथा- "उमावृषाको शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुम्तत्सदृशेन तत्समौ ॥" इत्यत्र यथातथाशब्दाभ्यामेव मागधीनृपयोरुमावृषाङ्कसाम्यं शचीपुरन्दरसाम्य च, सु- तस्य च शरजन्मजयन्तसादृश्यमवगमितमिति यत् तयोस्तस्य च पुनस्तत्सादृश्यवचनं तत् पुनरुक्तम् । तथोपमानयोर्यो निर्देशक्रम प्रक्रान्त. स उपमेयक्रमयोर्भेद नीत इति निर्देशप्रक्रमभेदो दोषः । तत एव च तत्समावित्यत्रावाच्यवचनदोषोऽपि तावत् स्फुट एव उपमानयोग्यत्वोपपत्तेः । किञ्च तथाशब्दस्य यद्वचनं सोऽवाच्यवचनं दोषः, तद्यतिरेकेणाप्यर्धयोर्विपर्यासमात्रेण तदर्थावगतिसिद्धेः । तस्मादेवमत्र पाठः श्रेयान् ‘सुजन्मना तेन सुतेन तावुभौ ननन्दतुः सा च विशांपतिश्च सः' इति । यतो वस्तुमात्रोपनिबद्धप्रायेऽपि पदसमुदाये दृश्यन्त एव ते । अन्येषां यथा--- "काव्यस्यात्मा ध्वनिरिति बुधैर्यः समानातपूर्व- स्तस्यामावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद् वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ।।" इत्यत्र काव्यस्यात्मा ध्वनिरितीतिशब्दस्य तावत् प्रक्रमभेदः । स हि काव्यात्मप- दानन्तरं प्रयोक्तव्यः काव्यस्यात्मेतीति । अन्यथा ध्वनिनवास्य सम्बन्धे विज्ञाय- माने तस्य सर्वनामपरामर्शाभावे अभावो भाक्तत्वं वागविषयत्वं च न प्रतीयेत १ 'शष्पै' इति खपुस्तके पाठः. mmar - --