पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

25yer19t-1 [LagarLF - Fai slrran. व्यक्तिविवेके द्वितीयो विमर्शः । तस्मादात्मशब्दानन्तरमेवायमितिशब्द प्रयोक्तव्यः । स च हेत्वर्थवृत्तिः, यथा-

    • रम्या इति प्रप्वतीः पताका रागं विविक्ता इति वर्धयन्तीः ।

इत्यत्र । तेनायमर्थः यत काव्यस्यात्मा जीवितभूतम्ततो बुधैर्यो ध्वनिर्नाम समा- म्नात्पूर्व इत्येष एवार्थोऽभिमत कवेरिति विज्ञायते, यदय तत्र तत्र ध्वनेः काव्यैक- जीवितत्वमाह । किञ्च समाम्नातेर्धातोः कर्मणि भृते च प्रत्ययोत्पत्तौ कर्मण एव प्राधान्ये तस्यैव निर्देशो न्याय्यो न कर्तुर्नापि पूर्वशब्दस्य, अव्यभिचारात् प्रयोजनाभावाच्चेति यदेतयोरुपादान तत् पुनरुक्तमेव । किञ्च • भाक्तमाहुस्तमन्य इत्यत्रापि पूर्ववदितिशब्दः प्रयोक्तव्यः उत्तरत्र च । अन्यथा अन्येषां केषाञ्चिच्चो- क्तीर्नानुकृता स्यात् । ततश्च भाक्तो यो ध्वनिस्तमाहुरन्य इति वाचामविषये स्तिथं यत् तदीयं तत्त्वं तत् केचिदूचुरिति प्रतीतौ ध्वनेर्साक्तत्वाक्तिः अन्येषा केषाञ्चिच्च वाचामविषये स्थितत्वं यत् तदीयस्य तत्त्वम्य तदुक्तिननुकृता म्याद् इतिना व्य- वच्छेदाभावाद् इति वाच्यावचन दोषः । सामर्थ्यादुक्तरेनुकारानुगमे वा पूर्वत्रेतिश- ब्दस्य पौनरुक्त्यप्रसङ्गः । किञ्चात्र वचनार्थो गदतिः प्रयुक्त एवेति तस्यैवादिदीप- कन्यायेनानुवृक्तिर्युक्ता न तु तदभिन्नार्थस्य ब्रवीते रुपादानमित्युभयत्राप्युक्तदोषद्वया- नतिवृत्तिः । कालविशेषप्रक्रमभेदश्र्वात्रावगन्तव्यो जगदुरित्यूचुरिति च कालविशे- षस्य प्रक्रान्तस्यानिर्वाहात् । किञ्च धनेस्तत्व ध्वनिरेव वा स्याद् अन्यदेव वा । तत्र ध्वनिरूपत्वे तत्त्वमूचुस्तदीयमिति त्रितयमपि पुनरुक्त स्याद् केचिद् वाचः स्थितमविषये जगदुरित्येतावाभ्दिः प्रयुक्तान्तर्गतैरेव पदैस्तर्थावगतिसिद्धेः । यथोक्तं प्राक् ---- ‘प्रयुक्तान्तर्गतैरेव यत्र सोऽर्थः प्रतीयते ।। प्रयोगस्तत्र शेषाणा पदानां पौनरुक्त्यकृत् ।। इति । अन्यरूपत्वे त्वन्यस्य वागविषयत्वाभावे ध्वनेस्तदविषयत्व नोक्तं स्यात् तयो- र्भेदात् । किञ्च भक्तेरेव ध्वनिरूपतामन्ये मन्यन्ते न तत्सम्बन्धिनोऽन्यस्य व्यापा- रादेरिति व्यर्थस्तद्धितनिर्देशः । यत् स एवाह भक्तिर्ध्वनिरिति - “भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।” इति । युक्तं चैतत् , तथा हि ----

  • कृशाङ्गयाः सन्तापं वदति बिसिनीपत्रशयनम् "

इत्यत्र वदत्यर्थाद्वाच्यादन्यस्य व्यक्तिलक्षणस्यार्थस्य तात्पर्येण प्रकाशनमिति ध्वनि- लक्षणानुगमात् भक्तेरेव तत्त्वमुपपद्यते नान्यस्येति व्यर्थस्तद्धितनिर्देशः । सहृदयम-