पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेके तृतीयो विमर्शः। ११५ विप्रकर्षप्रकाशनपरं तदिति तत्प्रवृत्त्यगमेवास्तु तदिति च । तचायुक्तम् । अत्र हि श्वः प्रत्याय्या वर्तते नान्यः न चायं चिरपरिशीलनावसेयो निशान्धताख्यो हे- तुम्तां प्रति सिद्धः । तथाविधश्चोपादीयमानः प्रत्युत तस्याः शङ्कामुपजनयेत् । उ- भयार्थकारी ह्यत्र हेतुरुपादेयो भवति यो न श्वश्राः शङ्कामाधत्ते पथिकं च प्रव- यति । नचाय निशान्धताख्यो हेतुस्तथेति व्यर्थम्तदुपन्यासः । किञ्चायं निशा न्धतोपक्षेपः पक्षद्वयेऽप्यप्रयोजक एव शयनसन्निवेशदर्शनसंस्कारादेव तदुभय- सिद्धेः । ये तु शयनीययोर्विप्रकर्षदर्शनेनान्योन्यदर्शनस्या फुटत्वमनुमीयमानं हेतु- तया मन्यन्ते अतएव च 'अत्ता एत्थ णिमज्जइ' इति पठन्ति तेऽप्ययुक्तवादिनः अनैकान्तिकत्वात् । दृश्यन्ते ह्यचलितचारित्राणामपि युवतीनामेवंविधाः सद्भावगर्भाः भणितयः । आकारविशेषाणां हेतुत्वपरिकल्पनमुपहासायैव तेषां वाच्यत्वाभा- वात् वाच्यस्यैव व्यञ्जकत्वेन प्रकृतत्वात् । किञ्चात्र निरूप्यमाणो हेतुरेव न लभ्यते। स हि विधेयानुगुणो वा स्यात् प्रतिषेध्यानुगुण उभयानुगुणो वा । तत्राद्यः श्वश्वाः शङ्कामेव जनयेदसिद्धत्वाच्चाक्षुषत्वादिवत् । द्वितीयो न विवक्षितार्थसिद्धिहेतुर्विरु- द्धत्वात् कृतकत्वमिव नित्यत्वे । तृतीयस्तु सन्देहमेव जनयत्यनैकान्तिकत्वात् । प्रमेयत्वादिवदिति । यदाहुः- "नासिद्धो भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।। ___ धर्मो विरुद्धो भावस्य सा सत्ता साध्यते कथम् ॥" इति । अपि च तत्र यथाद्य उदाहरणे भ्रमणविधिहेतुरेव निरूप्यमाणः प्रतिषेधे पर्यवस्यति न तथेह प्रतिषेधहेतुरेव विधाविति कुतो विधिरूपान्तरप्रतीतिसिद्धिः । तस्माद्वधेयस्यार्थान्तरस्य निबन्धनाभावात् प्रतीतिरेव नास्तीति कुतस्तस्य व्यङ्ग्यत्व- मित्ययुक्तमेवेदमुदाहरणम् । "वञ्च महन्विअ एक्काए होन्तु णीसासरोइअव्वाइ ।। ___ मा तुज्झ वि तीए विण दक्खिण्णहअस्स जाअन्तु ॥" इत्यत्र कयाचित् खण्डितयान्तर्जलितेाप्रकोपया सावहित्थं सोलुण्टं सप्रणयौचित्यं च यः प्रिय प्रति भेदो विहितस्तत्र तस्यामेव भवानिर्व्याजमनुरक्तहृदयो मयि तु कितव! तव कृतकोपचारवचनरचनामात्रमेतादिति नायकस्यान्यत्रानुरागातिशयः १ व्रज ममैवैकस्या भवन्तु नि श्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥ २. ‘ण्टनम्' इति खपुस्तके पाठः,