पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Tourimagadyarture teurisma Nayaltyauraned on व्यक्तिविवेके तृतीयो विमर्शः। "खिग्धश्यामळकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सबै सहे वैदेही तु कथं भाविष्यति इहाहा देवि! धीरा भव !" इत्यत्र मदनदहनोद्दीपनचन्द्रोदयोद्यानादिदारुणपदार्थसार्थदर्शनदुःखसहिष्णुत्वं नाम रामस्य साध्यम् । तत्र च रामत्वमेवार्थो हेतुः । रामशब्दो ह्ययं स्वेच्छापरिकल्पित- प्रकरणाधवसेयसकलक्लेशभाजनत्वलक्षणधर्मविशिष्टं संजिनं प्रत्याययति न संज्ञिमा- त्रम् । तयोश्च व्याप्यव्यापकभावलक्षणः सम्बन्धः प्रसिद्धिकृतोऽध्यात्मप्रसिद्ध एवाव- गन्तव्यः यथा वृक्षशिंशपयोः । यच्च तदनुमितं धर्मान्तरं तत् सर्वसहत्वस्योपा- तस्य साधनं न रामत्वमेवेत्यनुमितानुमेय तत् । एवमस्मीत्यस्मदर्थे धाणि रामत्व- मात्रनिबन्धनायां सकलक्लेशभाजनत्वलक्षणसाध्यधर्मसिद्धौ स्फुट एवास्यानुमानान्त- र्भावः । ततश्च रामस्य यत् कठोरहृदयत्वाभिधानं तत् पुनरुक्तमेव अनुवादपक्ष- स्यातिकृच्छ्रुत्वात् । "तोला जाआन्त गुणा जाला दे सहिअएहि घेप्पन्ति । रहाकरणाणुग्गहिआइ होन्ति कमलाइ कमलाइ ॥" इत्यत्राद्यस्तावत् कमलशब्दः सामान्यवृत्तिद्धितीयो विशेषवृत्तिः । स चास्य विशेषो निरतिशयशोभासौरभाभिरामतालक्षणोऽर्थः प्रकरणादिगम्यो रविकिरणानुग्रहकृतः प्रमाणान्तरसिद्धस्सामान्यनिष्ठोऽनुमेयः । तत्र च तयोः सामान्यविशेषार्थयोर्विजाती ययोरिव सजातीयार्थयोरप्यारोप्यारोपकभाव एव हेतुः यथा सिहो माणवक इति । न च भिन्नजातीयत्वमेवार्थानामारोपनिबन्धनमिति नियमः सम्भवति येनात्र सजाती- यत्वादसौ न स्यात् तस्य भिन्नार्थमात्रप्रयुक्तत्वात् । तच्चानयोरुक्तनयेनास्त्येवोतना- सिद्धो हेतुः । सामान्यविशेषवृत्तित्वं चेदं शब्दानां विवक्षामात्रनिर्मितमिति न तस्य पूर्वपश्चाद्भावनियमः कश्चित् । ततश्च-- "ऍमेअ जणो तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दोविअ बराओ ॥" इति विपर्ययेणापि तदुपपद्यत एव । एवञ्चास्याप्यनुमानान्तर्भाव एवावगन्तव्यः । 'नि- श्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते' इत्यत्रादर्शस्य विच्छायत्वममितमुपमानम् । १. 'तुच्छ' इति खपुस्तके पाउ. २. अस्यच्छाया ५८ तमपृष्ठे द्रष्टव्या ३ अस्य च्छाया ५८ तमपृष्ठे द्रष्टव्या ४. 'नुमित मित्येव खपुस्तके पाठः,