पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेके तृतीयो विमर्शः। १२१ "असाधुरनुमानेन वाचकः कैश्चिदिप्यते । वाचकत्वाविशेषेऽपि नियमः पुण्यपापयोः ॥" इति । नचैतावता तस्यापशब्दत्वं कल्पयितु युक्तं यतः शब्दस्तावच्छब्द्यते विमृ- श्यतेऽभिधीयतेऽनेनार्थ इति शब्दनक्रियाकरणभावोपपन्नोऽर्थः कथ्यते । स च त्रिविधः । साधुरसाधुरपशब्दश्चेति । लक्षणानुगतः साधुः प्रकृतिप्रत्ययादिविभा- गपरिकल्पनया लक्षणेनानुगम्यत इति । ततोऽन्योऽसाधुरव्युत्पन्ना डित्यादिवत् । शब्दादपेतोऽपशब्दः योऽर्थे न प्रतिपादयति विगुणसामग्रीक इत्यर्थ. । एवञ्च साधुशब्दस्यापि सामग्रीवैगुण्येनावाचकत्वादपशब्दत्वम् अपशब्दस्यापि तदानु- गुण्येन वाचकत्वादनपशब्दत्वमुपपन्नं भवति । ततश्च वाचकत्वावाचकत्वमात्रनिब- न्धने शब्दापशब्दत्वव्यवहारे व्यवस्थिते सति ये केचिदितिहासपुराणादावागम- शास्त्रादौ च कचित् केषाञ्चिच्छब्दानामसाधुत्वादपशब्दत्वमुद्भावयन्ति ते प्रत्यु- का भवन्ति । अस्मान् प्रति पुनरविषये प्रयुज्यमानः शब्दोऽपशब्द इति । त- यथा- "मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वरजिता राजेता वशमाययुः ।।" इत्यत्र हरिणानामुपमानत्वादप्राधान्यमविगणय्यैव यः कविना रञ्जिलप्तानुनासिकः प्रयुक्तः सोऽपशब्द एव तत्प्रयोगस्योपमेयार्थानुगुण्येनापपन्नत्वात् , तस्यैव प्राधा- न्यात् , प्रधाने च कार्यसम्प्रत्ययोपगमात् । केवलमप्रधानापेक्षया शब्दसंस्कारवि- परिणामेन व्याख्यामात्रमत्र श्रेयो न पुनस्तस्य प्रयोगः । युज्येत पुनरेतद् यदि पथिकानां हरिणतया रूपणं स्याद् आरोपो वा यथा 'स्मृतिभुवो बत पान्थमृग- बजा' इति, यथा वा 'स्मृतिभुवः पथिका हरिणबजा' इति । अन्यथा त्वपशब्द एवायमविषये प्रयुक्तत्वाद् अस्वगोण्यादिशब्दवत् । यदुक्तम् --- "अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे । निमित्तभेदात् सर्वत्र साधुत्वं च व्यवस्थितम् ॥" इति । शब्दप्रयोगः कर्त्तव्यः प्रधानार्थव्यपेक्षया। तदन्यापेक्षया त्वर्थादेनं विपरिणामयेत् ॥ १॥ विपरीतमतो यत् स्यादपशब्दः स मां प्रति । हेतुलनेश्चायमेव प्रयोगपरिणामयोः ॥२॥ १. "प्रयु' इति खपुस्तके पाठः