पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Tutal imageaverture teurismam Parityauraned on १२२ व्यक्तिपिचेके तृतीयो विमर्शः। परिणामो बहुविधो बाचोलिङ्गादिभेदतः । स च प्रसिद्ध एवेति ना माभिरिह दर्शितः ॥ ३ ॥ इति सङ्ग्रहश्लोकाः । यदपि च केचिदाचक्षते समानायामर्थगती शब्देनापशब्देन च शास्त्रेण धनियमः क्रियते साधुभिरेव भावितव्यं नासाधुभिरिति, तत्र कूपखा- नकवद् वृत्ति विप्यतीत्यादिना तैरेव प्रतिविहि म् । सा चेतिहासपुराणागमशास्त्रे- वयस्त्येवेति नागमविरोधः । त्रिविधं हि शास्त्र शब्दप्रधानमर्थप्रधानमुभयप्रधा- नश्चेति । तत्र शब्दधानं वेदादि अध्ययनादेवाभ्युदयश्रवणात् मनागपि पा- ठविपर्यासे प्रत्यवायश्रवणाच्च । अर्थप्रधानमितिहासपुराणादि तस्यार्थवादमात्ररू- पत्वात् । उभयप्रधान सर्गबन्धादि काव्यं तस्य रसात्मकत्वाद् रस्स्य चाभयौचि- त्येन परिपोषदर्शनात् । काव्यत्यापि शास्त्रत्वमुपपादितमे । तदेवं यदर्थप्रध नमि- ष्यते तच्वगधारणार्थावबोधा ष्ठानोत्थितेन धर्मेणासाधुशब्दोदीरणोदितोऽधर्मः प्रतिहतो भवतीयमसौ कृर खानकवृत्तिः । धर्मस्य तदुत्थितत्वमुपगतमेव -- “यस्तु प्रयुते कुशलो दिशेो शब्दान्यथावद व्यवहारकाले। सोऽनन्तमामोति जय परन्न भयोगविद् दुप्यति चापशब्दैः ।" इति । असाधुश्चापशब्दश्च द्विधा शब्दः प्रकीर्तितः । तत्रासाधुन साध्यो यः प्रकृतिप्रत्ययादिभिः ॥ ४ ॥ शब्दादपेतोऽपशब्दः शब्दनाकरणात्मनः । शब्दना हि परामर्शो वाच्यार्थविषयोऽस्य यः ॥ ५ ॥ एवञ्चासाबुशब्दोऽपि नापशब्दत्वमर्हति । न सोऽप्यभ्येति साधुत्वं तयोविषयभेदतः ॥ ६॥ ततश्चम सामर्थ्यादेव शब्दस्य विषयेऽवगते सति । न प्रयोगोऽस्य न ह्येष स्वनिप्पत्त्यै प्रवर्तते ॥ ७ ॥ अत एव प्रकृत्यर्थमात्रं तत्र प्रयुञ्जते । सङ्ख्यासाधनकालादेरानुगुण्यानपेक्षिणः ।। ८ ॥ इयता चापशब्दत्वं न तेषामवकल्पते।। अर्थेषु शब्दचाफर्मकरणत्वानपायतः ॥ ९॥ १. 'तत्त' इति खपुस्तक पाठः