पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेके तृतीयो विमर्शः। १२३ असाधूच्चारणाद्यन्तु तत्राधर्मः प्रवर्तते । कूपखानकवद्वृत्तेः सोऽर्थज्ञानान्निवर्तते ॥ १० ॥ अथ वार्थपरिज्ञानमास्तां तत्पठनादपि । धारणादपि वा पुसां श्रूयतेऽभ्युदयः परः ॥ ११ ॥ इति सब्ग्रहश्लोकाः । तस्मादुपपत्तिशून्य एवायं गतानुगतिकतया अनेकार्थशब्द- प्रयोगविप्रलब्धव्याख्यातृपरम्परासमयमात्रप्रवर्तितः शब्दशक्तिमूलानुस्वानरूपार्था- न्तरप्रतीतिपक्षः । व्याख्यातारोऽयलीकविद्वन्मानितया प्रायेणापव्याख्यानैर्न केव- लमात्मानं यावत् तत्रभवतो महाकवीनयि द्रूपयन्तो दृश्य ते । तद्यथा--- "तां जानीयाः परिमितकथां जीवित मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीनिवैकान् । गाढोत्कण्ठागुरुषु दिवसेप्वेषु गच्छत्सु बाला जाता मन्ये शिशिरमपिता पद्मिनीबान्यरूपा ॥" इत्यत्र पाठमिममबुद्ध्वैव कलितकबिहेवाकाः पराकृतप्रतीतिचारुतातिशयास्ते 'अवैमि तदवज्ञानाद्यलापेक्षो मनोरथः । इत्यादौ दृष्टामपि वाक्यार्थकर्नतां मन्यनेरपश्यन्तो बालायाः कर्मतामस्य मन्यमानाः स्वरसन्धिवशाद्विकृतमिवशब्दमेव भ्रमाद् वाशब्दं परिकल्प्यापव्याख्यामार- भन्ते । न ह्येवमर्थस्य वैचित्री काचित् सभुमिपति । नापि महाकवेः कालिदास- स्यान्वयगतिरियं वचनापि प्रबन्धेऽवधारितपूर्वा यदय रसनिधाने काव्ये व्याधि- मिव वाशब्दमिवार्थे प्रयुञ्जीतेति । कथं तर्हि 'चन्द्र प्रवृद्धोभिरिवोर्भिमालीति त- स्यैव कवेरयं प्रयोगः । उच्यते । श्लिष्टत्वादावमावितार्थपाउन केनचित् कल्पि- तोऽयं पाठः । स हि जलधिर्निशीवेति द्रष्टव्यः । यथा च- "ग्रामेऽस्मिन् पर्थिकाय पान्थ! वसतिनैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा । तेनोद्गाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृत । येनाद्यापि करकदण्डपतनाशङ्की जनस्तिष्ठति ॥" इत्यत्र हि काचित् वसति प्रार्थयमान पथिकयुवानमुद्दिश्योत्पन्नमन्मथव्यथावेशा त- स्यान्यानुरागितामाशङ्कमाना दारुणतरपरिणामोऽ-- [सक्तजनानुराग इति न छेदसि १. लाकर्म' इति स्वपुस्तके पाठ:

  • 'दपध्या' इति कपुस्तके पाठः,