१३६ व्यक्तिविवेके तृतीयौ विमर्शः ।
सुदेवस्यामी व्यापाराः प्रसिद्धास्सन्तो येदन्यत्र राजादावारोप्य तस्य समीहितप्राप्त्या निषिध्यन्ते तदा तत्कार्यत्वात् कारणभूतभगवद्रूपतारोपमेव तत्रानुनापयन्तीति रूप- कानुमितिरिति व्यपदेशः प्रवर्त्तते |
"ज्योत्स्नापूरप्रसरधवळे सैकतेऽन्मिन् सरय्वा वादधूतं सुचिरमभवत् सिद्धयूनोः कयोश्चित् | एकः प्राह् प्रथमनिह्त केशिन कंसमन्यः स त्वं तत्त्वं कथय भवता को हतत्तत्र पूर्वम् ||"
इत्यत्र केशिकंसासुरयोः कतरो भवता पूर्व हृत इति योऽयं ववयौर्वापर्यविपर्ययानु- योगस्तस्य साक्षाद् भगवानेव विषयभावेन वक्तुमुचितो नापरो राजादिस्तयोरेव धूमाग्न्योरिव कार्यकारणभावप्रसिद्धेः । सोऽयमन्याविषयतयोच्यमानत्तत्र भगव- द्रूपतारोपमन्तरेणानुपपद्यमानत्तद्रूपतामुपकल्पयंत्तयो रूप्यरूपकभावमनुमापयतीति रूपकानुमितिर्व्यपादश्यते |
"लावण्यकान्तिपरिपूरितदिड्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरळायताक्षि ! | क्षोभं यदेति न मनागवि तेन मन्ये सुव्यक्तनेव जडराशिरय पयोधि. ||"
इत्यत्रापि यदेतत् कत्यांश्चियथोदितगुणगणोदितसौन्दर्यसम्पादि वदने सति समुद्र- संक्षोभाविर्भावध्योचितत्यापि कुतश्चित् कारणादभावाभिवानं तत्तत्य पूणे-दुरूपता-] ‘रोपमन्तरेणानुपपद्यमानं मुखत्य ताद्रू-यमुकल्पयत् पूर्ववत् तयो रूप्यरूपकभावमनु- मापयतीति रूपकानुनितिव्यपदेशो भवति । केवलमिदमत्र विचार्यते । यदेतद्वदने- न्दुबिम्बसद्भावे सत्यपि पयोधेस्सलिलोल्लासलक्षणक्षोभाविर्भावाभावानिबन्धनाधिया स- लिलसमूहमात्रपरमार्थो यन्नात्य काचन चेतनचमत्कारकणिका समरतीत्येवमर्थतात्प र्येण जलराशित्वमुपात्तं तत् तस्य सदैव सन्निहितमित्यनारोपितरूपयामिनीरमणोदय समयेऽपि नास्य संक्षोभावभावो भवेत् तदापि जलराशित्वाविशेषात् । अथ मदनो- न्मादलक्षणक्षोभाभावनिबन्धनबुध्या सदसद्विवेकविकलोऽयं जड इति जाड्यप्रतिपा- दनपरतया तदुपादानमिति । एवमपि वदनस्य सौन्दर्यातिशयशालिनः सौभाग्या- तिरेक एवानुभितो भवति, यथात्रैव पाठावपर्यासे सति
"यत् प्रहभावमुपयाति न तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः" यदन्य इति खपुस्तके पाठ:.