पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७ व्याक्तिविवेके तृतीयो विमर्शः। इति, न पुनः पूर्णेन्दुरूपत्वम् । तद्धि तत्कार्यरय समुद्रसंक्षोभरयाबिकलकारणतया सम्भाव्यमानो पादरय सतः प्रतिबन्धकप्रत्ययबलादनुत्पादे सत्यनुमीयते नान्यथा । यथा- "होइ ण गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किरपलवइ ससिमणी चन्दे ण पियामुहे दिढे ॥" इत्यत्र प्रियामुखस्य पूर्णेन्दुरूपत्व तत्कार्यस्य चन्द्रकान्तमणिप्रसुतिलक्षणस्य स. ग्भाव्यमानोत्पादस्य सतो जाड्यजनितप्रसिद्धिशरणत्वरूपप्रतिबन्धकप्रत्ययबलादनु. त्पादे सत्यनुमीयते । न चेह चन्द्रबिम्बकार्यस्य किमपि प्रतिबन्धकारणमुपात्तमिति कथ तस्य पूर्णेन्दु रूपतानुमितिसिद्धिः । यत्र हि यत्कार्यस्य यत्प्रतिबन्धनिबन्धनभावे- नोपकल्पते तत्र तस्वैव तदुपादाने सत्यवसायो नान्यस्य अतिप्रा शात् । मुखे च सौभा- ग्यातिरककार्यस्य मदनो मादलक्षणस्य क्षोभस्याचेतनत्व परमार्थजलराशित्वं प्रति- बन्धनिबन्धनभावनोपात्तम् । अतस्तस्यैव तत्र प्रतीतिरुपपन्ना न चन्द्रत्वादेः । अन्यथा कमलत्वादेरपि सा स्याद् विशेषाभावात् । तस्मादुभयार्थसाधारणक्षोभपद- प्रयोगमात्राविप्रलम्भकृतोऽय मुखेन्दुबिम्बयो रूप्यरूपकभावभ्रम इति स्थितम् । त- स्मादेवमत्र पाठः कर्त्तव्यः -- "क्षोभं यदेति न मनागपि तेन मन्ये रूपान्तर पतिरपां किमपि प्रपन्नः ।" इति । अत्र हि न केवलं वदनत्येन्दुत्वं प्रतीयते, यावदपां पत्युः शृङ्गारित्वमपि । तेन तव वदनेन्ददये सत्यनेकसुन्दरीरूपलावण्यसम्पदामन्तरज्ञोऽप्यपांपतिर्यन्न मना- गपि क्षोभमुपयाति तन्मन्ये रूपान्तरं किमपि प्रपन्न इत्ययमर्थोऽवतिष्ठते । एष चा- नन्तरोक्तपाठार्थाद्विशिप्यते न वेति सहृदया एव प्रमाणम् इति । यथास्थितपाठपक्षे तु नेदं रूपकानुमितेरुदाहरणमुपपद्यते । ___“वीराण रमइ घुसिणारुणाम्मि ण तहा पिआथणुच्छङ्गे।। दिठी रिउगअकुम्भत्थलम्मि जह बहुलसिन्दूरे ॥" इत्यत्र कान्ताकुचतटकारकुम्भस्थलयोः प्राकरणिकेतरयोः प्रमाणान्तरप्रतिपन्नसं- स्थानविशेषयोः कुङ्कुमसिन्दूराहितलौहित्यलक्षणनिबन्धनसादृश्यावसायमूलोऽयमुप- मानोपमेयभावावगम इति तस्यैव तत्र हेतुत्वम् अप्रतिपन्नसंस्थानस्थानिरूपितसा- १. भन्ति न गुणानुरागो जडाना नदर प्रसिद्धिशरणानाम् । ___ रं प्रस्नौति शशिमाणिश्चन्द्रे न प्रियासुखे दृष्टे ।। २. 'खुशरणरूप' इति खपुस्तके पाठ, ३. अस्य कन्या ३३ तमपृष्ठे बटव्या.