पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
व्यक्तिविवेके तृनीयो विमर्शः।

प्रसाद्यमानाया यत् तत्र रोषविषयेऽपि न तव रोशितु शक्यमित्युक्त तदनुपपद्यमा- नतया समर्थनीयमेवेति यत्तत्र वल्लभसम्वोनद्वारेण बहुज्ञत्वमर्थान्तरभूतमुपात्त त- देव तत्समर्थकहेतुतामुपयाति, तत एव हि परहृदयवेदिनि जने कः खलु काप कर्तुमर्हतीत्यस्यार्थस्य प्रतीतिसिद्धेः । द्विविधो हि हेतुरुक्तः शाब्दश्चार्थश्चेति । तेनेयमार्थस्य हेतोरुपादानादर्थान्तरन्यासानुमितिरित्युच्यते |

"[१]जाएज वणुद्देसे खुजोचिअ पाअवो घडिअवत्तो ।
मा माणुसम्मि लोए ताएकरसो दलिदो अ॥"

इत्यत्र यथोक्तस्वरूपस्याप्रस्तुतस्यैव वनपादपम्य पुंसश्च कस्यचिद् दरिद्रस्य प्रस्तुत- स्यानुपयोगितया निष्फलयोरुभयोरप्यनभिनन्द्यजन्मताप्रतीतो तुल्यायां अदेतदेक- स्यैव जन्मानभिनन्दनं नेतरस्य तत् तस्य शोच्यतातिरेकलक्षणं व्यातरेकमनुमाप- यतीत्यस्य व्यातिरेकानुमितिव्यपदेशासिद्धिः।

"चन्दनासक्तभुजगनिश्वासानिलमूर्च्छितः ।।
मूर्च्छयत्येष पथिकान् मधौ मलयमारुतः ॥"

इत्यत्र चन्दनासक्तभुजगनिश्वासानिलसम्पर्कमात्रेण मूछाहेतुत्व मलयमारुतस्थ मुख्यमनुपपद्यमान मूर्छाकारित्वलक्षणात् साधान सिहो माणवक इत्यत्र सिहत्व- मिवोपचरितमाश्रीयत इतीवार्थमनुमापयति । मुख्यतानुपपत्तौ च निमित्त भुजग- निश्वाससमीरसम्पर्कमात्रेण मलयमारुतस्य न्यग्भावभाजो बहलीभावासम्भव. । यद्वा मुख्यमर्थमनाहत्यार्थान्तरे प्रयुज्यमानः शब्दो यथाकथञ्चित् सादृश्यमेवावगमयति । न चैवं विधे विषये इवादिप्रयोगमन्तरेणासम्बद्धार्थतैवेत्याशङ्कनीयं प्रकरणादितोऽप्य- र्थस्य स्वसौन्दर्यादेव वार्थान्तरावगतः, यथा--

"[२]ईसाकलुसस्स वि तुह मुहम्स णे एस पुण्णिमाचन्दो।
अज सरिसत्तणं पाविऊण अङ्गेच्चिअ ण माइ ॥"

इत्यत्रेवशब्दस्य । यथा च --- {{center="त्रासाकुलः परिपतन् परितो निकेतान् पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः कचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥"|}} इत्यत्र । शब्दार्थव्यवहारे च प्रतीतिरेव प्रमाणम् । प्रतीतार्थश्च शब्दः प्रयुज्यमानः पौ- नरुक्त्यमेवावहतीति अत्रेवार्थस्यावगमादुत्प्रेक्षानुमितिरित्येषा व्यपदिश्यते । एवम् -

  1. १. जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्र । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥
  2. २, ईर्ष्याकलपस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्र, । अद्य सदृशत्व प्राग्याङ्ग इव न माति ॥