पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वस्त्वलङ्काररसादीनाम् । प्रकाश्याभिमतस्य हि प्रकाशकसहभावेनैव प्रकाशविषयताप- त्तिक्तिरुच्यते। तत्र वस्त्वलङ्कारौ प्रकाशकेन वान्यार्थेन सहैव न प्रकाशेते किन्तु तत्प्रतीत्यनन्तरमेव, रसादिरपि विभावादिप्रतीत्युत्तरकालमेव प्रतीयते, नतु त- त्सहभावेन । स तु कालः सूक्ष्मत्वान्न लक्ष्यत इत्येतावतैवासलक्ष्यक्रमव्यङ्गयो रसादि- ध्वनिरिति व्यवहार इति वस्त्वादिषु सर्वेष्वपि व्यक्तिर्नोपपद्यते । क्रमिकनियतप्रतीति- विषयौ चार्थो यत कुतश्चित् सम्बन्धात् साध्यसाधनभावमनतिवर्तमानावनुमानस्यैव विषय इत्यर्थोऽनुमापक एव, न व्यञ्जकः । शब्दस्तु स्वार्थतोऽपि पूर्वकालप्रतीतिक इति सुतरा न व्यञ्जकः । अपि च शब्दो गङ्गादिः सङ्केतितार्थोपक्षीणसामथ् -र्यः स्वार्थमात्रव्यवहितेऽप्यर्थे तटादौ व्यापरितु न क्षमते तटाद्यर्थस्य प्रवाहादित एवानुमानात् । का वार्ता स्वार्थतटाद्युभयव्यवहितमर्थ शैत्यादिरूप प्रति तस्य व्यापारे । किन्त्वसौ पदवाक्यात्मा स्वार्थद्वारेणानुमापकः काम स्यात् । वर्णसङ्घटनादेरपि वाचकशब्दोपा- धिभूतत्वात् तत्परम्परयानुमापकत्व युक्तम् इति ।

ध्वनिमते चैव निरसनीये, अनुमानपक्षे च स्थापनीये,
'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो |
व्यङ्कः काव्यविशेपः स ध्वनिरिति सूरिभिः कथितः'||

इति *ध्वनिलक्षणमादावुपादायावयवशो दूषित, दुष्टाशव्युदासपूर्वकसस्कारभङ्गया च तद्

‘वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तर प्रकाशयति ।
सम्बन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ता' ।। (पृ. २२)

इत्यनुमानलक्षणात्मना पर्यवसायित प्रथमे विमर्शे । द्वितीये शब्दानौचित्य विस्तरेण विचारित, ध्वन्यालोकगते च ग्रन्थान्तरे तत् सञ्चारितम् । तृतीये ध्वन्युदाहरणानाम- नुमितिसामग्रीप्रदर्शननानुमानान्तर्गतिर्नरूपिता । तदेवमस्मिन् ग्रन्थे ध्वनिशास्त्रप्रप- ञ्चितस्य सर्वविधस्यापि ध्वनेरनुमानेऽन्तर्भावः प्राधान्यात् प्रकाशितः ।

 महिमभट्टस्य ध्वनिकार प्रति सुमहान् विद्याबहुमानः, तत एव च स्पर्धा तत्साधारणकीर्तिकामुकस्य । ध्वनिकारों हि उद्योतत्रयवता ग्रन्थेन नव्य ध्वनिप्रस्थान- मुद्भावितवान्, अर्थानौचित्यञ्च व्युत्पादितवानिति महिमभट्ठोऽप्यनेन त्रिविमर्शेन ग्र- न्थेन स्वोपज्ञमनुमानप्रस्थान शब्दानौचित्य च वितत्य निरूपयाञ्चकार, आह च----

'इह सम्प्रतिपत्तितोऽन्यथा वा ध्वनिकारस्य वचोविवेचन नः ।

नियत यशसे प्रपत्स्यते यद् महता सस्तव एव गौरवाय' ।। (पृ. १) इति,


  • ध्वन्यालोके ३३.तमे पृष्ठे दृश्यमिदम् .