व्यक्तिविवेके तृतीयो विमर्शः
"अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिद बन्धनग्रन्थेः ।।”
इति निदर्शनानुमितावप्यवसेयम् ।
"रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वर्लाकाः समं वधूभिर्वलभीर्युवानः ||”
इत्रत्र वाक्यार्थप्रतीतेरनन्तरमुपमाप्रतिभोद्भेदनिबन्धनभूत न किञ्चिदवधारयामः, यत्सामर्थ्याद् वध्व इव वलभ्य इत्यमुमर्थमवगच्छेम । न चोभयार्थसाधारणस्य वलभीविशेषणकलापस्यैव तत्र निबन्धनभावोऽवगन्तुं युक्तः तस्य भिन्नविभक्ति- कस्य वधूभिरभिसम्बन्धानुपपत्तेरित्युक्तमेव। अथ सममित्यस्य तुल्यार्थस्य वधूवल- भीसम्बन्धबलात् विभक्तिविपरिणामेन कल्पिततदुचितविभवत्यन्ताना वधूनां विशे- वणकलापाभिसम्बन्धसहत्वाद् वधूभिरुपमानोपमेयभावावगतिर्भवति, यथा सम- मिन्दुना सकलकलोऽब्धिरुत्थित इति । एव तर्हि तुल्यतासम्बन्धावधारणनिबन्ध- नेयं वधूवलभीनामुपमानोपमेयभावावगतिरिति नासावनुमेयतामभिपततीति श्लेपा- नुमितिरित्युच्यते ।
“अङ्कुरितः कोरकित पल्लवितः कुसुमितश्च सहकारः । अङ्कुरितः कोरकितः पल्लवितः कुसुमितश्च हृदि मदनः ।।"
इत्यत्र मुख्यामुख्याङ्कुरितत्वादिधर्मविशिष्टयोः सहकारमदनयोः प्रमाणान्तराव- गतकार्यकारणभावयोरप्यतिशयोक्तिच्छायया यस्तुल्यकालतयोपनिबन्धस्तत्र कार्य- कारणधर्माणां यथाश्रुतक्रमं सङ्ख्यासाम्यमेव यथासङ्ख्यमनुमापयति, यथाश्रुतक- मातिकमे प्रयोजनाभावात् निबन्धनाभावाच्च । को ह्यविप्लुतमतिरसति बाधके श्रुत- मर्थमनादृत्याश्रुतं परिकल्पयेदिति यथासङ्खयानुमितिरितीयमुच्यते । यत्र प्रकरणा- दिप्रतिपत्त्यानुमितविशेषो वाच्योऽर्थः प्रतीयमानस्यार्थस्य लिङ्गभावमुपयाति सो- ऽप्यनुमानस्यैव मार्गः । यथा ---
“उच्चिणुसु पडिअकुसुमं मा धुण सेहालिअं हलिअसोह्ने । अह दे विसमविराओ ससुरेण सुओ वलयसद्ददो ||"
इति । अत्र ह्यविनयपतिना सह रममाणा काचित् बहिश्श्रुतबलयकलकलया सख्या प्रतिबोध्यत इत्येतदपेक्षणीयं वाच्यस्य प्रतिपत्तये । प्रतिपन्ने च वाच्येऽर्थे तस्या- विनयप्रच्छादनतात्पर्येणाभिधीयमानत्वादनुमेयाङ्गत्वमेवेत्य्रस्यानुमान एवान्तर्भावः ।
१. उच्चिनु पार्ततकुसुम मा धुनु शेफालिका हालिकस्नुषे । एष ते विषमविसव श्वशुरेण श्रुतो वलयशब्द. ।।