पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPIRily intai muyinwuranatumpaamanarthptoistrint venuinal व्यक्तिविवेके तृनीयो विमर्शः । १३१ एवमन्यासामपि वाच्यन्यतिरेकिणीनामलकृतीनां यथायोगमनुमानान्तर्भावम्व- यमेवानुसतव्यः । एवं वस्तुमात्रादीनां गम्यत्वं प्रतिपाद्येदानीं वर्णपदवाक्यस- डटनादीनां गमकत्वं प्रतिपाद्यते । तत्र वर्णसङ्कटनानां तावद् गमकत्वमर्थद्वा- रकमेव । तथा हि विशिष्टवर्णसङ्घटनोपकृतशब्दप्रतिपादितनार्थेन रत्यादयः स्था- यिनोऽनुमीयमानाः स्पष्टतरमवभासन्त इति शब्दोपाधिभूतयोस्तयोर्वर्णसङ्घटनयो- रपि गमकत्वमुपपन्नमेव पारम्पर्येण, न साक्षात् । तथाविधशब्दसन्दर्भाभिहितस्या- र्थस्य रत्यादेश्च भावम्य तार्णपार्णयोरिव धूमाग्न्योः कार्यकारणभावेनावस्थानात् । तथा हि ये रतिशोकाक्रान्तान्तःकरणाः ये च क्रोधोत्साहादिविवशाम्ते मधुरतरव- र्णविरचितामसमासप्रायां रेफशकारटकारकर्कशां दीर्घसमामभूयिष्ठां च सङ्घटना- माश्रित्य भृम्ना भाषमाणा दृश्यन्त इति म्वभाव एवायम् । सङ्घटनावाहितविशेषवाचकसमर्पितादर्थात् । क्रोधादिविशेषगतिधूमविशेषादिव कृशानोः ॥ २८ ॥ इति सड्ग्रहार्या । पदवाक्ययोः पुनः साक्षादर्थद्वारक गमकत्वं न वर्णसङ्घटनयो- रिव वाचकोपाधिभावनिबन्धनामति न तुल्यकश्यतया निर्देशम्तयोरुपपन्नः । पद- वाक्ययोर्हि द्वयमर्थान्तरप्रतीतौ निबन्धनमिष्यते, उपचारः प्रकरणादिसामग्री चेति । यत्र हि तत् समारोपित तत्र यथाकथञ्चित् तत्सादृश्य तत्सम्बन्धादवग- म्यते, न तत्त्वम् तदभावे सादृश्यानुपपत्तेरिति तदेतदत्रानुमेयमित्युक्तम् । एकोऽपि हि शब्दः सामग्रीवैचित्र्यात् तद्धर्मविशिष्ट स्वार्थमेवावगमयतीति तदेव तत्र लिगमवगन्तव्य न शब्दमात्रम् । तद्धि संज्ञिनमेव प्रत्याययितुमलं न सं- शिविशेषमित्येतदप्युक्तमेव । तत्र पदस्योपचारतो यथा महर्षेयासस्य 'सप्तैताः समिधश्श्रिय' इति, यथा च वाल्मीकेः 'निश्वासान्ध इवादर्शश्चन्द्रमा न प्रका- शते' इति, यथा च कालिदासस्य 'कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्' इति, यथा च --- "सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥" इत्यत्र समिदन्धसन्नद्धमधुरपदानि गमकत्वाभिप्रायेणैव प्रयुक्तानीति उक्तमेव । तस्यैव सामग्रीवैचित्र्ये यथा 'रामेणप्रियजीवितेन तु कृतं प्रेम्णः प्रियेणोचितम् '