पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RelateTREAD १३२ व्यक्तिविवेके तृतीयो विमर्शः। इत्यत्र रामेणेन्येतत् पद प्रकरणादिसामग्रीवशात् साहसैकरसिकत्वादिधर्मविशि- ष्टस्य रामार्थस्य गमकम् अन्यथा हि मयेत्येव वक्तव्यं स्यात् । यत्रापि चैकस्यैवा- र्थस्यैकाभिधानमुखेनोत्कर्षापकर्षतत्त्वानिधित्सयोपकल्पितभेदस्य विध्यनुवादभावेनो- पनिबन्धः तत्र प्रकरणादिभ्य एवास्योत्कर्षोऽपकर्षो वानुमेयः, न तु तत एव । न हि विधेयाभिधायिनः शब्दम्यैव सा शक्तिस्तयोविरोधात् । तत्रोत्कर्षों यथा- “रइकिरणाणुग्गहिआइ होन्ति कमलाइ कमलाइ ।" इत्यत्र द्वितीयः कमलशब्दः । अपकर्षो यथा-- ___ "एमेअ जणो त्तिस्सा देउ कवोलोपमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दोच्चिअ वराओ॥" इति । अत्र द्वितीयश्चन्द्रशब्दः । अत्र हि विधेयाभिधायिनो द्वितीयाचन्द्रशब्दा- यथापकर्षोऽवगम्यते न तथा पूर्वत्र कमलशब्दादित्यर्थप्रकरणादिरेव तत्र हेतुभावे- नोपगन्तुं युक्तो न शब्दशक्ति । तस्या झुत्कर्षापकर्षावगमः पूर्वापरपदार्थीियत एव स्यात् , नानियतः । तत्त्वे यथा ----- "काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः । सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥" इत्यत्र द्वितीयौ काचमणिशब्दौ । शब्दशक्तिमूलाया अर्थान्तरप्रतीतेरनिबन्धनायाः पराकृतत्वान्न तन्मूला पदवाक्यप्रकाशता सम्भवति । यथा- "प्रातुं धनैरर्थिजनस्य वाञ्छां देवेन सृष्टो यदि नाम नास्मि । पथि प्रसन्नाम्बुधरस्तटाक कूपोऽथवा किन्न कृता जडोऽहम् ॥" इति । अत्र हि जड इत्येतत् पदं निविण्णेन केनचिद्वका कूपसमानाधिकरणतयैव प्रयुक्त, नात्मसमानाधिकरणतया 'कूपोऽथवा किं न कृतो जडोऽहमित्यात्मनो जडत्वाशंसास्पद वनेष्टत्वाइ, इत्थमेव वाच्यम्य चारुत्वोपपत्तेः, यतोऽयमत्रा- Y विवक्षितः किं ममानेन परदुःखभाजा हतचैतन्येन कृत्य, जडस्तटाक एवा- स्मि कस्मान्न कृत इति । नचोक्तनयेन निबन्धनान्तरमन्तरेण स्वशक्त्यैवानुरणन- रूपतयार्थान्तरसमानाधिकरणतां प्रतिपत्तुमलमित्यनुदाहरणमेतत् । ___ "असमधिरं वि गहिअ कुसुमसरेण महुमासलच्छिमुहम् ।" इत्यत्र ह्यसमर्पितमपि कुसुमशरेण मधुमासलक्ष्म्या मुखं गृहीतमित्यसमर्पितमपीत्ये- तदर्थाभिधायि पदमर्थशक्त्या कुसुमशरबलात्कारमनुमापयति । १. अस्य च्छाया ५८ पृष्ठे. २. असमर्पितमपि गृहीत कुसुमशरेण मधुमासलक्ष्मीमुखम् ।