पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMuvindhy inal Imean er fanasunga imagsahasrdhy majniwniorains व्यक्तिविवेके तृतीयो विमर्शः। " 'सिहिपिच्छकण्णऊरा जाआ वाहम्स गव्विरी भमइ । मोत्ताफलरइअपसाहणाण मज्झे सवत्तीण ॥" इत्यत्र नवोढाया व्याधवध्वाः सपत्नीभ्य. सौभाग्यातिरेकोऽनुमेय । तत्र चाम्याः शिखिपिञ्छकर्णपूराया अपि सगर्व भ्रमणं हेतु', यतोऽयमभिप्रायस्तत्त्या - मयि सत्यामयं सम्भोगैकरसिको व्याधो वारितान्यकर्त्तव्यो दिवानिश मत्परायण एव केवलं मद्विनोदार्थ यदृच्छयान्तिकापतितमयूरमात्रमारणव्यापारो वर्तत इति शिखि- पिञ्छमात्रकर्णपूराहं जाता, भवतीपु सतीपु दूरदेशकालव्यवधानसाध्यमहारम्भमा- तङ्गमारणादिव्यापारनिरतोऽयमासीदिति मुक्ताफलरचितप्रसाधना भवत्य इति । तेन यदेतत् सगर्व भ्रमण तदेव तस्याः सपत्नीभ्यः सौभाग्यातिरेकमनुमापयतीत्य- वसेयम् । वाक्यार्थस्य विभावादिरूपस्य रसादीनां चालक्ष्यक्रमो गम्यगमकभाव इति प्रतिपादितमेव । स च वाक्यार्थः शुद्धोऽलङ्कारान्तरसङ्कीर्णश्चेति द्विधासम्भ- वति । तत्र शुद्धो यथा रामाभ्युदये कृतककुपितैरित्यादिश्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्त प्रकाशयत् सर्वत एव परं रसतत्वं प्रकाशयति । अल- कारान्तरसङ्कीर्णो यथा -- "स्मररसनदीपूरणोढा पुनर्गुरुसेतुभि- यदपि विधृता दु.खं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रिया ॥" इति । अत्र हि रूपकेण यथोक्तलक्षणगमकानुगतेनावगमितोऽयं रसः सुतरां प्रका- शत इति मुख्यवृत्त्यार्थस्यैव गमकत्वं न शब्दस्येति स्थितम् । वाक्यार्थस्येव प्रब- न्धस्यापि रसादीनां च योऽयमलक्ष्यक्रमो गम्यगमकभावो महाभारतरामायणादौ प्रसिद्धः, तस्य विभानुभावव्यभिचार्यौचित्यचारुणो वृत्तस्योत्प्रेक्षितस्य वा कथाश- रीरस्य रसाभिव्यक्त्यानुगुण्येनोपनिबन्ध एव निबन्धनं तस्य रसादीनां च कार्य- कारणभावस्य प्रतिपादितत्वात् । यदाह ध्वनिकारः-- "विभावभावानुभावसञ्चायौँचित्यचारुणः । विधिः कथाशरीरस्य वृत्त्यस्योत्प्रोक्षितस्य वा ॥ इतिवृत्तवशायातां त्यक्ताननुगुणां स्थितिम् । उत्प्रेक्ष्याप्यन्तराभीष्टरसाचितकथोन्नयः ।। १ शिखिपिञ्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सुपीनाम् ॥