पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३६ व्यक्तिविवेके तृतीयो विमर्शः। सन्धिसन्ध्यङ्गघटनं रसादिव्यक्त्यपेक्षया । न तु केवलया शास्त्रास्थितिसम्पादनेच्छया ॥ उद्दीपनप्रशमने यथावसरमन्तरा । रसस्यारब्धाविश्रान्तेरनुसन्धानमनिनः ॥ अलकृतीना शक्तावप्यानुरूप्येण योजनम् । प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥" इति । सुबादीनामपोद्धारपक्षे अन्वयव्यतिरेकाभ्यामर्थवत्तावसाये सति अर्थस्य च विभावादिरूपत्वाद् विभावादीनां रसादीनां च कार्यकारणभावस्योपपादितत्वात् त- न्मूलो लक्ष्यक्रमो गम्यगमकभावोऽभ्युपगन्तव्य एव । तेषामुदाहरणानि यथा- "न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः । सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । विधिकच्छऋजितं प्रबोधितवता कि कुम्भकर्णेन मे स्वर्गग्रामटिकाविलुण्टनवृथोच्छूनैः किमभिर्भुजैः ॥” इति । अत्र भूम्ना सर्वेषां स्फुटमेव गमकत्वं दृश्यते । तत्र मे यदरय इति सुप्स- म्बन्धवचनानामुक्तनयेन गमकत्वम् यथायोगमुत्तरत्र च । तत्राप्यसौ तापस इति तद्धितनिपातयोः । सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावण इति तिड्- कारकशक्तीनाम् । धिधिक्च्छऋजितमित्यादौ श्लोकार्धे कृत्तद्धितसमासोपसर्गाणा- मिति । सुप्तिड्सम्बन्धाद्याः क्रोधोत्साहादिकान्यथा भावान् । गमयन्ति तद्विधेयाविमर्श एवोक्तमस्माभिः ॥ २९ ॥ इत्यन्तरार्या । निपातोपसर्गादीनामसत्त्वभूतार्थानामुपाधिरूपत्वादुपाधिमत्समाश्रयेणै- वार्थावगतिरिति पदवाक्ययोरावगमकत्वोक्त्यैव तेषामपि गमकता प्रतिपादितैव । केचित् पुनर्निपाताः क्रोधाद्भुतशोकादीन् भावान् प्रदीपवद् वक्तृगतानेवावद्योतयन्ति न वाच्यगतान् । यथा---- "आस्तिष्ठ रक्षः! क मे प्रियतमामादाय गच्छसी" ति क्रोधः । "अहो बतासि स्पृहणीयवीर्य" इति विस्मयः । "हा धिक् कष्टमहो व यामि शरणम्” इति शोकः । अत एव तेषां द्वित्राणां त्रिचतुराणां वा प्रयोगे पुनरुक्तता नाशङ्कनीया समुदि- तानां तेषां प्रदीपादीनामिव स्वकार्ये प्रकर्षदर्शनात् । तदुक्तम्--- १. 'प्यानुकूल्येन' इति खपुस्तके पाठः २. 'वा' इति खपुस्तके पाठः,