पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यक्तिविवेके तृतीयो विमर्शः। | तेन न बहुभाषित्वं विद्वद्भिरसूयितव्यं नः ।। ३७ ।। अन्यैरनुल्लिखितपूर्वमिदं ब्रुवाणो नूनं स्मृतेर्विषयतां विदुषामुपेयाम् । हासैककारणगवेषणया नवार्थ- | तत्त्वावमर्शपरितोषसमीहया वा ।। ३८ ।। इति श्रीराजानकमहिमभट्टविरचिते व्याक्तिविवेकाख्ये काव्यालङ्कारे अन्तर्भावोपदर्शनो नाम तृतीयो विमर्श । समाप्तश्चायं ग्रन्थः, शुभं भूयात् ।