पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति

 ‘सहसा यशोऽभिसत्तुं समुद्यतादृष्टदर्पणा मम धाः ।।
 स्वालङ्कारविकल्पप्रकल्पने वेत्ति कथमिवावचम् ॥ (पृ. १)

इति च । अत्र हि सहसा यशोऽर्जनकामनया दर्पणग्रन्थमदृष्टैव व्यक्तिविवेको मया रचित इत्युच्यते । ‘दर्पणो हृदयदर्पणाख्यो ध्वनिध्वंसग्रन्थ' इति व्याख्याकारः । तथा चायमभिप्रायः स्फुरति----व्यक्तिविवेकरचनात् प्राग् दर्पणस्य दर्शने तमुपजीव्य मया कृतो व्यक्तिविवेक इति लोकः शङ्केत । ततश्च ध्वनिध्वंसनिर्वाहं प्रति स्वस्यास हायशूरता न प्रख्याता स्यादिति । ‘सहसे’त्यनेन च यावद् दर्पणकारस्य ध्वनिध्वस जन्य यशो न प्रसरत, तावतः कालात् प्रागिति गम्यते । तेन च दर्पणव्यक्ति विवेकयोरीषत्सान्तरकालता प्रतीयते । तच्चेद दर्पणादर्शन परकीयस्य ध्वनिदूप णप्रकारस्य कस्यापि काप्यननुवादात् प्रकाशते । यत्तु भट्टनायकीयस्य ध्वनिलक्ष णगतद्विवचनदूषणस्यानुसन्धानम् ‘एवञ्च भट्टनायकेन द्विवचन यद् दूषित, तद् ग जनिमीलिकयैव' इति, तदपि लोचनवाक्यानूदितत्वेनैव कृतमिति दर्पणादर्शन द्रढ यत्येव, यस्मात् प्रक्रान्त दर्पणाख्य ध्वनिध्वसग्रन्थ प्रति ध्वनिदूपकतयावगतो भट्ट नायक एव की भाव्यते ।

 नवनवार्थग्रामोल्लेखेषु यथाविपयमुपपत्तिसमर्थनासु च परा श्लाघामयमर्हति । परग्रन्थगुणगुणविवेचन पुनर्महोत्सव एव महिमभट्टस्य, यदयमाह---

'मुग्धः कि किमसभ्य एष भजते मात्सर्यमौन नु कि
 पृष्टों ने प्रतिवक्ति यः किल जनस्तत्रेति सम्भाव्यते ।
छात्राभ्यर्थनया ततोऽद्य सहसैवेत्सृज्य मार्ग सता
 पौरोभाग्यमभाग्यभाजनजनासेव्य मयाङ्गीकृतम्' । (पृ. ३७)

इति । किञ्चानेन विधेयाविमर्शः, प्रक्रमभेदः, क्रमभेदः, पौनरुक्य, वाच्यावचन चेति दोषपञ्चकमात्मोपक्रम व्यपदिशता महाकविगिरः परीक्षिताः, ध्वनिकारोक्तिषु च बल वत् पराक्रान्तम् ।

 अस्य आनन्दवर्धनाचार्यवद् वक्रोक्तिजीवितकारे कुन्तकेऽपि बलवान- भिनिवेशः । तथा च कुन्तकलेकदूषणकृतार्थमानिनोऽस्य जयाडण्डिम ---

‘काव्यकाञ्चनकषाश्ममानिना कुन्तकेन निजकाव्यलक्ष्मणि ।
| यस्य सर्वनिरवद्यतोदिता श्लोक एप स निदर्शितो मया' ।। (पृ. ६८)

इति, तथा