पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥ व्यक्तिविवेकव्याख्यानम् । प्रथमो विमर्शः। ग्रन्थारम्भे ग्रन्थकार शिष्टाचारमनुस्मरन्नुचितदेवताप्रणामपुरस्सर स्वप्रवृत्तिप्रयोजन- माचष्टे [१]अनुमानेऽन्तर्भावमित्यादिना । तत्र वाचो विचार्यत्वेन प्रस्तुतत्वात् प्रणामसमुचि- तत्वम् । व्यक्तिर्व्यञ्जन तद्विवेकस्य करण स्वप्रवृत्ति । तस्या प्रयोजन ध्वनेरनुमानान्तर्भावप्र- काशनम् । सर्वग्रहणेन निरवशेषतामाह अन्यथा काव्यानुमानस्याच्याप्ति स्यात् । महिमेति नामपद कीर्त्यर्थम् ॥ युक्तोऽयमित्यादिनाधिकारिनिरूपणम् । केचिदिति श्लेषहेतूपन्यास । ज्वलनं क्रोधः सूर्यकान्तसम्बन्ध्यग्न्युत्थान च। विकास: प्रमोदानुभव पद्मगत प्रफुल्लत्व च । निमीलनमसूया- कृतोऽनुत्साह कुमुद्गत सङ्कोचश्च । अभ्युदयो महोत्सव अभिमुखमुद्गमश्च । जगत्प्रदीपो विद्यादिना विश्वप्रकाशक रविश्च । एतच्च गुणगर्वाध्मातमात्मानमुद्दिश्य भनथा कथितम् ।। अनुमानान्तर्भावनरूपस्य स्वप्रवृत्तिप्रयोजनस्य ध्वनिकृद्वचनविवेचनाख्यस्य यश प्रवृत्तिल- क्षण प्रयोजनमाह इहेत्यादिना । अन्यथा वेति । यदि सम्प्रतिपत्त्या सौजन्यमूलया परी- क्षया न बुध्यते तद्विप्रतिपत्तिमाश्रयाम इत्यर्थ । (विप्रतिपत्ति) विप्रतिपत्त्या कथनम् । निश्चितय- शप्रपत्तिसमर्थन यन्महतामिति । संस्तवः परिचय । अत्र च 'ध्वनिकद्वाक्यविवेचन तदे- तद्' इति पठनीयम् । यथास्थितपाठे तु ध्वनिकारस्येति वचश्शब्दान्वितमिष्यमाण प्राधान्याद्वि- वेचनशब्दान्वित प्रतीयते । एतच्चास्य साहित्यविचारदुर्निरूपकस्य प्रमुख एव स्खलितमिति म- हान् प्रमादः ॥ यदि परमत्र विवेचने स्खलित सम्भाव्यते । तच्च यशोजनसम्भ्रमप्रवृत्तत्वादनुरूपग्रन्था- न्तरापरिशीलनाच्च बुद्धिर्न चेतयत इत्युक्त सहसेति । अभिसर्तुम् आभिमुख्येन गन्तुम् अभिसारिकालेन च प्राप्तुम् । दर्पणो हृदयदर्पणाख्यो ध्वनिध्वसग्रन्थोऽपि । स्वालङ्कारो व्य- फिविवेचनाख्यस्तत्र । यद्वा ध्वनिकार प्रति विकल्पप्रकल्पनं तत्र च, स्वस्य च यदलङ्करण हारकटकादीना प्रकल्पनं यथास्थान विरचन तत्र । अवद्यं दोषम् । विशेषणसाम्याद्धियोऽभि- सारिकाव्यवहारप्रतीतिः॥ नन्वसम्भवत एव स्खलितस्य कथ सम्भावन क्रियत इति ध्वनिवर्त्मनीत्यादिना स्व- लितस्य सम्भवमाह । अतिगहनं प्रमेयाकुल सन्तमसावृत्त च । स्खलितं पदभङ्गोऽपि । र भसमावेगो वेगश्च । चन्द्रिका ज्योत्स्ना ध्वनिविचारणग्रन्थोऽपि ॥ स्खलितमत्र सुलभम् । कथं तारभ्यत इत्याह किन्त्विति । तत् स्खलितम् । परि- पवनमिति तितउः तुषं दोषोऽपि । वैधर्म्यदृष्टान्तमूलो व्यतिरेकः ॥ तत्रेति व्यक्तिविवेके प्रस्तुते सति तावब्रहण विवेकक्रमद्योतनार्थम् । लक्षण वक्तव्य कुत