पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPidity intuitmenternet an unnpeamareherity naginnind unaina व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । इत्याह कोऽयं ध्वनिर्नामेति । यत इत्थविधस्य प्रश्नस्यावतार इत्यर्थः । तथा हीति लक्षण- पददूषणक्रमेण ध्वन्यन्तर्भाव सपीठिकाबन्ध दर्शयति । तद्यभिचारस्योपसर्जनीकृतात्मत्वव्यभिचा- रस्थाभावात् । तथा हि । सम्भवव्यभिचाराभ्या विशेषणविशेष्यभावो भवति, न केवलेन सम्भ- बेन उष्णोऽग्निरितिवत्, न केवलेन व्यभिचारेण शीतोऽग्निरितिवत् । नीलोत्पलादौ तु स्वरूपे सम्भवाद्भक्तोत्पलादिभावाच्च सम्भवव्यभिचारौ विद्यते इति भवत्येव विशेषणविशेध्यभाव. । अ- र्थस्य पुनरर्थान्तरप्रकाशन प्रत्युपसर्जनीकृतात्मत्वव्यभिचारो नास्ति ततो न तस्य विशेषणत्व वटते । नहीत्यादिनार्थान्तरप्रतीत्यर्थोपात्तस्यार्थस्य उपसर्जनीकृतात्मत्वव्यभिचाराभाव निदर्श- यति । गुणताम् उपसर्जनत्वम् । तस्येति गुणस्य । तन्मात्रलक्षणत्वादिति । अन्यसिद्ध्य- र्थमुपादीयमानत्व गुणस्य लक्षणमित्यर्थः । [२]तत् प्राकरणिकत्वेति । इह द्विविध प्राधान्य प्राकरणिकत्वस्वरूप प्रतीयमानत्वस्वरूप चेति । तत्र प्राकरणिकत्वस्वरूप प्राधान्य प्रतीयमानार्थप्र- तीत्यर्थमुपात्तस्यार्थस्य समासोक्त्यादौ काम विद्यते । नतु तदिह लक्षण उपयुज्यते । प्रत्याय्य- प्रत्यायकभावजीवितत्व हि ध्वनिलक्षणम् । तत्र प्रत्याय्यस्योपेयत्वात् प्राधान्य, प्रत्यायकस्य पुनरुपायत्वादप्राधान्यम् । एवञ्च प्राकरणिकत्वसमुत्थापित भवदपि तस्य प्राधान्य ध्वनिलक्षणे नो- पयुज्यत इति नोपसर्जनीकृतात्मत्वस्य तद्यावर्त्य भवतीति न तद् विशेषणमुपादेयम् । अत्र च वाच्यस्यैव प्राकरणिकत्वादन्यस्य च प्राकरणिकत्वाभावात् त वाच्यमेव प्राकरणिकमपेक्ष्येत्यर्थों न्याख्येय । एव प्रतीयमानापेक्षयेति न प्रतियोग्यन्तरमपेक्षणीयम् , अपि तु पूर्ववत् स्वापे- क्षया व्याख्येयम् । भावप्रत्ययपाठ पुनरत्रानार्ष । अत्र हीत्यादिना वाक्यार्थत्वादित्यन्तेन प्राकरणिकत्वानिमित्त प्राधान्य समर्थयते । तदपेक्षयेत्यादिना तु प्रतीयमाननिमित्तम् । स्व- भारोपितनायिकानायकव्यवहारयोरिति ध्वनिकार प्रति सोत्प्रास कथितम् । नायिका- नायकव्यवहारयोरिति ध्वनिकारपाठ एकशेषाभावसमर्थनाकल्पना स्यात् । व्यभिचारेऽपीति । वाच्यस्य प्रतीयमानापेक्षया चारुत्वनिमित्त प्राधान्य व्यभिचार. । तत्र सत्यपि तस्य व्यावृत्त्यर्थ विशेषणमयुक्त निष्फललाद् , यतो यत्र गुणीभूतव्यङ्गथे व्यङ्गथापेक्षया वाच्यस्य चारुत्व तदिह व्यावर्तनीयम् । नच तत्र वाच्यस्यैव चारुत्वमिति नियम व्यङ्गयस्यापि प्रकृष्टचारुत्वदर्शनात् । एतदिति । उपसर्जनीकृतात्मत्वम् । वक्ष्यत इति । काव्यवैशिष्टयनिराकरणप्रस्तावे । गमक- लेनोपायत्वादुपसर्जनाकृतात्मत्वव्यभिचाराभाव । तदेवमव्यभिचारादर्थस्य विशेषणमनुपपन्नम् ॥ __ +अत्र व्यक्तिवादिनोऽयमभिप्राय -यदेतदर्थस्य गुणीकृतात्मत्व तदर्थान्तरप्रत्यायकत्वेनो- पायत्वादप्राधान्य, प्रतीयमानापेक्षया अचारुत्व, विश्रान्तत्वेनार्थान्तरानुपकार्यत्व चेति त्रय पक्षाः सम्भवन्ति । तत्राद्य पक्षद्वयमनूध काम दूषितम् । तथा हि । वाच्यस्यार्थस्य प्रतीयमानापेक्षया अप्राधान्यमुपायत्वादव्यभिचारि 'यो हि यदर्थमुपादीयत' इत्यायुक्ते । अचारुत्वेऽस्य पुनर्व्यवच्छेद्य नास्ति, गुणीभूतव्यङ्गथेऽपि वाच्यस्थाचारुत्वदर्शनात् । तृतीयस्तु पक्षो गुणीभूतव्यङ्गयनिरासाय सिद्धान्तितः । तथा हि । समासोक्त्यादौ प्रतीयमानोऽर्थों वाच्यार्थापयिकोऽपि न स्वात्मनि विश्रा- न्ति भजते, प्रत्यावृत्त्य वाच्यार्थीपस्काराय प्रवृत्तत्वात् । एतच्चोक्तं 'समारोपितनायकानायकव्यव- हारयोर्निशाशशिनोरेव वाक्यार्थत्वादिति । ततश्च गुणीभूतव्यङ्गये वाच्यस्य स्वविश्रान्तत्वेनार्था- न्तरोपकार्यत्वं व्यावर्त्यमिति विशेषणमुपपन्नम् । + उत्तमर्थविशेषणस्यानुपपन्नत्व ध्वनिकासभिप्रायाविष्कारेण खण्डयति-अब व्यकीत्यादि।