पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। गुणीकृतात्मतार्थस्य न प्रतीतावुपायता । नाचारुत्वमपि त्वौद्धैरनुपकार्यता ॥१॥ इति सङ्ग्रहश्लोक । शब्दस्वरूपस्यानुपादेयत्वमुक्तम् । तद्विशेषणस्यापि तदाह-न चेति । अनुकरणे शब्दप्राधा- भ्याद्विद्यमानोऽप्यर्थ उपसर्जनीभूत एव । तदर्थावगतिरिति रामे श्रीन्यसनलक्षणव्यवहार्यार्थीवग- तिरित्यर्थ । अनुकार्यादिति जरासम्वद्धाद्वचनादित्यर्थ । द्विविधो स्वर्थोऽनुकार्यशब्दरूप तत्प्र- तिपादितव्यवहार्यार्थरूपश्च । तत्राद्योऽनुकरणशब्दस्यार्थ. । तत्रानुकरणशब्दाद्यद्यपि न व्यवहार्या- थप्रतीतिस्तथाप्यनुकार्यशब्दस्तदर्थ प्रत्याययेदित्यर्थ । सार्थकत्व चानुकार्यस्य यथा - 'हा शैत्य तुहिनाचलस्य करयोरित्यूचिवान् सस्मित'मित्यादौ, निरर्थकत्व यथा- 'दात्यूहव्यूहकेळीकलितकुह- कुहारावकान्ता बनान्ता' इत्यादौ । अन्यस्यत्विति । अनुकरणशब्दव्यतिरिक्तस्य स्वतन्त्रतया वाचकस्य अनुकार्यशब्दस्य च । उपसर्जनीभावाव्यभिचार एवेति । वाच्य प्रतीति शेष ! ननु शब्दाभिप्रायेणोपसर्जनीकृतार्थत्व प्रकृतम् । शब्दस्य स्वरूपेणोपसर्जनीभाव किग्निरूपित । सत्यम् । अर्थस्य तावच्छब्द प्रत्युपसर्जनीभावसम्भवः प्रकृत. । स एव शब्दस्यार्थ प्रत्युपसर्जनीभा- वाव्यभिचारेण प्रकाश्यते । य एव ह्यर्थस्य शब्द प्रत्युपसर्जनीभावाभाव स एव शब्दस्योपसर्ज- नीभावाव्यभिचारस्तयो परस्परापेक्षया गुणप्रधानभावस्य व्यवस्थितत्वात । ततश्च शब्दापेक्षया- र्थस्य प्राधान्याच्छब्दस्य गुणीभूतार्थत्वमसम्भवि । अयमत्र पिण्डार्थ -- शब्दस्य गुणीभूतार्थत्व स्वार्थापेक्षया प्रतीयमानापेक्षया चेति द्वैतम् । तत्र स्वार्थापेक्षयासम्भव रक्त. । प्रतीयमानापेक्षया पुनरर्थन्यायेनाव्यभिचारो योजनीय , यथानन्तरमेव वक्ष्यते 'नोदकादिति' । यथाहुः-'गुणाः प्रतिनिर्धायन्ते घटादीना न जातय ' इति ! ननु मुख्यसश. प्रतिनिधिरित्युच्यते । मुख्य च प्र- धानम् । एवञ्च कथमुच्यते प्रधानस्य न प्रनिनिधिरिति । सत्यम् । प्रतिनिधीयमानोऽमुख्य एव भ- बति । केवल मुख्यामुख्याना प्रतिनिभ्यर्हाणाममुख्य एवं प्रतिनिधीयते, न मुख्य. प्रधानत्वादि- त्युक्त नोदकादीति । व्यभिचारसम्भवयोरपीति । प्रौढत्वादयमभ्युपगमवादः । अर्थाभि- प्रायेण व्यभिचार , गुणीभूतव्यङ्गये प्रतीयमानापेक्षया वाध्यस्य चारुत्वाभ्युपगमात् । शब्दाभि- प्रायेण सम्भव' अर्थान्तरापेक्षया शब्दस्य गुणीकृतार्थत्वात् । स्वार्थयोरिति स्वस्थार्थस्य च । सदवगतेरिति । उपसर्जनीकृतत्वावगते. । तस्येति स्वरूपमात्रानुवादस्य । एवञ्चेति व्यङ्गय- व्याकभावो हि परमार्थतो गम्यगमकभाव । एवञ्च शब्दस्य व्यञ्जने 'सुवर्णपुष्पामि'त्यादौ शब्द- स्य व्यापारान्तराभावात् साध्यसाधनाख्ययोधर्मयोरनुगमस्य सम्बन्धस्यसिद्धत्वायङ्गशव्यञ्जकभा- वो न सिद्ध इत्यर्थः । व्यक्तिवादिन पुनर्मते शब्दस्य शक्त्यन्तरसमर्थनात् स्वरूपेणोपादानस्य सार्थकत्वं विवक्ष्यते । तस्य चोपसर्जनौकृतार्थत्व विशेषण सप्रयोजनमेव ! तथा हि 'दृष्टया केशव! गोपरागढ़तया' इत्यादौ प्रतीयमानस्यार्थस्य शब्दस्पृष्टत्वाद् वाच्य प्रत्युपस्कारकत्वाद् वाच्या फे- क्षया शब्दस्य गुणीकृतार्थत्वं नास्ति । तद्यवच्छेदार्थं विशेषणमुपादेयमेव । तदेतत् कटाक्षित + यस्मिन्ननुक्त. शब्देन शब्दशक्त्युद्भवो हि स' इत्यत्र । तद्वदभिधाप्युपादानमहत्येवेति ।

  • अत्र व्यक्तिवादिनोऽयमाशय -इह चिरन्तनैरलङ्कारतन्त्रप्रजापतिभिर्भोद्भटप्रभृतिभिः शब्दा-

र्थधर्मा एवालङ्काराः प्रतिपादिता. नाभिधाधर्मा', यतोऽर्थप्रतिपत्त्युन्नेयः शब्दव्यापार शब्दोचार-

  • ध्वन्यालोके २उद्योते कारिकेयम् . * अभिधोपादानपर्यनुयोग मूलकृतः खण्डयति-अत्रेत्यादि.