पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः। गसिद्धश्चात्र कार्यकारणभाव अतिप्रमिद्धन्वाभावात् साधनमुपातमेव । [८] अयाचितारमिति । अयाचन' कारणानुपलब्धिरूपमाथे पदार्थरूपम् । देदंप्रमाणसिद्धकार्यकारणभावसम्बन्ध याचनंदि कन्याग्राहणशक्तत्वस्य कारणम् । कारणीभावाच्च कार्याभाव साध्य । कार्याभावप्रतीत्युत्पादना- नुमानमेतत् ! अनिराकरणादिति । कर्तुपादे । कर्मणा हिरण्यादिना । ईप्सितम् आ- मुमिटम । ब्राह्मणादि सम्प्रदानम् । नच त्यागाचं लजनस्योपकरणभूत् तेन विना त्यागासम्म- वात् । तच त्रिधा प्रेरक याचकब्राह्मणादि ! अनुमन्तृ मद्राह्मणादि । अनिराकर्तृ देवतादि ! 'पशु- यतिरित्यादावार्य पाथरूपम यात्मप्रमाणामसम्बन्ध माधनम् । [९] द्विषतामिति । तथाहि । शत्रुणा गुरप्युदय मुखेल मृप्यते परे अम्वन्ततरत्वाद अतिशन्यनारमणीयपरिणामत्वात् । तथा महानपि परिक्षय सुखेन न मृत्यते फलसम्पदौन्मुन्यात । दुर्मन्त्रात्कुतनयान्मयादित्यत्र धर्म- धर्मिभावो नास्ति । शाब्द तु पदार्थरूप मा चनम् । लोकप्रसिद्धश्च सम्बन्ध । निवार्यतामिति । अत्र वाक्यार्थस्य साधनत्व यत्र सम्बन्धी बंदसिद्ध । दिवं यदि प्रार्थयस इति । अत्र प्रार्थ- नीयनिष्ठस्य प्रायितृत्वात्मकम्य प्रार्थनस्य प्रार्थनीयगत दूरत्वपरायत्तत्वाभ्याममुलभत्व कारण, तद्विरुद्ध निकटवस्वायत्तबा या मुलभत्वमिति तदुपलभ्यमान स्वविरुद्धकार्यस्य प्रार्थनस्य श्रम- लक्षणप्रवृत्तिपर्यन्तम्याभाव गमन्यनीति प्रथमेऽर्धे कारणविरुद्धोपलब्धि । द्वितीयेऽर्थे तस्यैव प्रार्थयितृत्वस्याप्रार्थनीयन्व व्यापक, तद्विरुद्ध च प्रार्थनीयत्व तदुपलभ्यमान स्वविरुद्धव्याप्यस्य प्रार्थयितृत्वस्याभाव गमयतीति व्यापकविरुद्धोपलब्धि । (प्रार्थनीयत्वादेरपि सिद्धे) तदेव वा- क्यार्थगतत्वेन वाच्यनिष्ठ शुद्ध वेश्यनुवादभावमस्त्युत्तरस्यामित्यादौ प्रतिपाद्य तत्सलग्नत्वेन सा. ध्यसाधनभाव प्रतिपादित । ___वाच्यानुमेयार्थविषयत्वेन द्विविध साध्यसाधनभाव उद्दिष्टः । तत्र वाच्यार्थविषये तस्मि- निणीते अनुमेयार्थविषय निर्णतुमाह- अनुमेयार्थेति । अत्र व्यक्तिवादिना व्यङ्ग्यत्वेन योऽर्थ उक्त स इहानुमेयत्वेनोच्यते, व्यक्तरनुपपत्तेरुपपादयिष्यमाणत्वात् शब्दस्य व्यापारान्त- राभावाच्च । पत्युरिति । अत्र विशिष्टाशीर्वचनमौत्सुक्यादेयभिचारिणो विभाव , सख्या मा- येन ताडन च अनुभाव । तौ व्यभिचारिभाव कारणत्वात् कार्यत्वाच्च गमयत । स च सहका- रित्वाद् रूपमिव रसो रतिस्थायिभाव गमयति । [१०] एवंवादिनीति । अत्र लबाख्यस्य व्यभि- चारिणो देवरेववादित्व पितुश्च पार्श्ववर्तित्व कारणत्वेन द्वौ विभावौ, तथाधोमुखत्व लीला कमल- पत्रगणन च कार्यत्वेन द्वावनुभावौ गमकत्वेन स्थितौ । सा च गम्यभूता लज्बा सहचारित्वादति गमयति । ततश्चात्रानुमितानुमेयार्थनिष्ठत्वम् । एव प्रयच्छतेत्यत्रावसेयम् । अत्र हि मानिनी प्रकृयवाभिमानवती न तु सर्वेसहा । दयितेन आत्मरागविषयेण न तु पतिमात्रेण । पुष्पाणि प्रदातुम् । विपक्षस्य विद्वषिण्या सपल्या न तु तटस्थायाः गोत्रं गां वाचं त्रायतेऽन्यस्मा- द् ब्यवच्छिनत्ति नियतविषयत्वेन स्थापयति यत्तन्नाम लम्भिता गोत्रस्खलनविषयभाव प्रापिता विशिष्टमनुभावमकरोदिति तावदर्थ । अत्र लज्जादेर्व्यभिचारिणो विपक्षगोत्रग्रहणं विभावो 'न किश्चिदूचे' इत्यनुभावश्च गमकत्वेन स्थितौ । स च लज्जादिः सहचारित्वादीाविप्रलम्भं गमय- तीति । चित्रपुस्तकादाविति । आलेख्यलेख्यादौ सन्तमसावस्थिते प्रदीपादिना प्रकाशिते अटित्यद्भुतार्थप्रकाशनाचमत्कारो जायते । तद्वद्रसादावित्युपचारप्रयोजनम् । स एव विधीति । इहाभिधेयानभिधेयत्वेन द्विविधोऽर्थः । अभिधेयो विधिनिषेधादिः प्रसिद्ध एव । अनभिधेयः पुनः