पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

sanslamlanawr smarvar

यत् पुनः शब्दार्थों सहितौ ..........

 तेन ध्वनिवदेषापि वक्रोक्तिरनुमा न किम्' (पृ. २८)

इति ग्रन्थेन वक्रोक्तिकारसम्मताया वक्रोक्तेरप्यनुमानान्तर्भावोऽनेन साधितः । कुन्तक एव च वक्रोक्तिजीवितकारः, यतः

  • सरम्भः करिकीटमेधशकलोद्देशेन सिहस्य य.

सर्वस्यैव स जातिमानियतो हेवाकलेशः किल ।
इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसरब्धवान्
योऽसो कुत्र चमत्कृतेरतिशय यात्वम्बिकाकेसरी"

(पृ. ३७, ३८.)

इति श्लोक कुन्तकेन स्वीयकाव्यलक्षणग्रन्थे सर्वनिरवद्यतया प्रतिपादित व्यक्तिवि- वेककारो वक्ति, व्यक्तिविवेकव्याख्याता च वक्रोक्तिजीवितख्येि काव्यलक्षणग्रन्थे विस्तृय व्याख्यातम् । तेन व्यक्तिविवेककारोक्तः कुन्तकीयकाव्यलक्षणग्रन्थे व्यक्तिविवेकव्याख्यातृनिर्दिष्टवक्रोक्तिजीवितारख्यकाव्यलक्षणग्रन्थ एव भवितुम. हेति, मूले सामान्यरूपेणोपदीयमानस्यार्थस्य विशेषरूपेण व्याख्याने विवरणौचित्यात् ।

 । सेयमनुमानवाचायुक्तियशतैर्ध्वनिकारेण सह बलवनियुध्य स्थापिताप्यनुया- यिविरहात् प्रतियायिबाहुल्याच्च ध्वनिव्यवहारसाधारणमादर काव्यालङ्कारगोष्ठीषु नावि- दन्त । *सम्मटभट्टप्रभृतयो ह्यलङ्कारशास्त्रकारा न केवल ध्वनिप्रस्थान तात्पर्यतो जुषन्ते, याबदनुमानपक्षं दूरतः प्रतिक्षिपन्ति । किन्तु ग्रन्थगुणदोषविचारसरण श्रीमहिमभट्टन क्षुण्णामेते भृशमाद्रियन्ते । अत्र ।

इत्यादिप्रतिभातत्त्वमस्माभिरुपपादितम् ।
शास्त्रे तत्वोक्तिकोशाख्य इति नेह प्रपञ्चितम् ॥ (पृ. १०८)

इति दर्शनात् तत्वोक्तिकोश इत्यपि कश्चिद् ग्रन्थो लोकोत्तरप्रतिभोदयहृद्यविद्यावैभ- वेन श्रीमहिमभट्टन प्रणीत इति गम्यते । स यदि गुणसम्पदा व्यक्तिविवेकन्ना- तृभावात् समाख्याप्रलयाच्च सम्भाव्यया वस्तुत एव विभूषितः, त तर्हि दै-नानुपल- म्भयता वञ्च्यन्त एवं मन्य, सचेतसः ।


  • व्याख्याने १६ श पृष्ठ दृश्यम् मम्मटभट्टः काव्यप्रकाशकार..

5 हेमचन्द्रस्तु स्वीयकाव्यानुशासनस्य विवेके व्यक्तिविवेकवाक्यान्येव तन्नामानिर्देशन | लिखति बहुषु स्थलेषु (पृ १७६-१८१) ।