पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMinihy intui image neratinumps amarelintihynginent urina व्यक्तिविवकेव्याख्याने प्रथमो विमर्शः । [२०] काव्याविशेष इत्यत्रेति। अत्र विशेषशब्द प्रभेदपर्यायोऽतिशयपर्यायो वा स्यात् । प्रभेदपक्षे 'काव्यमात्रस्येत्यादिनाव्याप्तिलक्षण दूषणमुक्तम् । अतिशयपक्षे 'न च तस्ये त्यादि- नासम्भवाख्यदोषोपन्यास । काव्यमात्रस्य सामान्येन गुणीकृतव्यड्ग्यादेरपि निरतिशयो निर्विशेषः- सुखास्वाद । 'पाठ्यादित्यादिना ध्रुवाख्यगीतिसामर्थ्यानुगुण्येन नाटयविषयरसस्वरूपवर्णनम् ! काव्यविषये तु गानवर्जमिति नदेव रसस्वरूपम् । काव्यस्य वैशिष्टयं स्वरूपकृत रसकृत वेति पक्षद्वयम् । रसस्यापि वैशिष्टय चमत्कारातिशयकृत वा भेदान्तरकृत वा रसरहितसुन्दरशब्दा- र्थापेक्षाकृत वा वस्तुमात्रादिव्यङ्ग्यरूपकृत वा अड्गीभावकृत वेति पक्षपञ्चकम् । तत्र सर्वस्य र- सवत्त्वेनैकरूपतयेष्टत्वान स्वरूपकृतः कश्चिद्विशेष । कुत पुनस्तत्कृत. काव्यविशेषत्स्यात् । ए- तेन रसस्य चमत्कारातिशयविशेषपक्षो निराकृतः । भेदान्तरकृतविशेपपक्षे तु न तत्कृत काव्य- विशेष । भेदान्तरवत. काव्यस्य चनित्वाभावप्रसङ्गेनाव्याप्ति स्यात् । रसरहितसुन्दशब्दार्था- पेक्षाकृतविशेषपक्षे तु रसरहितस्य शब्दार्थयुगलस्य काव्यत्वमेव न युक्तमिति कुतो विशेषग्रहणेन तद्यावृत्ति । वस्तुमात्रादिव्यङ्मयकृतविशेषोऽपि नास्ति वस्तुमात्रादीना व्यञ्जकत्वाव्यञ्जकत्ववैशिष्टये व्यङ्गयवैचित्र्याभावात् । वैशिष्टये वा वस्तुमात्रादिव्यङ्गयाभावे केवलरससद्भावे च ध्वनित्व न स्याद् इत्यव्याप्ति ! प्रहेळिकादौ वस्तुमात्रादिव्यशयसद्भावे रसाभावे ध्वनित्व स्थान वस्तुमा- त्रादीनामेव व्याथाना प्रयोजकत्वादित्यतिव्याप्ति । अङ्गीभावपक्षे तु रसस्य स्वात्मविश्रान्तलेन कदाचिदप्यङ्गत्वाभाव. । इत्थ च न स्वरूपकृत नापि रसकृत काव्यस्य वैशिष्ठयम् वेशिष्टये वा लक्ष- णमाहात्म्यात् तस्य प्रतीतेर्विशेषग्रहणमनर्थकमिति पिण्डितार्थ । अक्षरार्थस्तु तस्येनि काव्यस्य । स्वरूपकृत वैशिष्टय निराकृत्य न च तस्येत्यादिना रसगतचमत्कारातिशयपक्ष निराकरोति । तस्य रसस्य । ध्रुवागानादिति ध्रुवाख्यगीत्युपादानेन नाट्यविषयरसस्वरूपप्रदर्शनमित्युक्तम् । एतद्वर्जितत्वे तत् काव्यगत रसस्वरूपम् । निर्विषयस्येति । अत्रान्तर्मुखत्व हतु । अस्य चर्व- यितु स्वरूपमन्तर्मुखानन्दरूपसविदात्मकम् । तदभावे रसाभावे । एतत् काव्यम् । प्रेक्षावतां विचारयितृणाम् । वैफल्यादिति फलमत्र चतुर्वर्गसाधनव्युत्पत्तिः । रसाभावे काव्यतैव न घटत इति । कविव्यापारः अनेन कवे. कर्म काव्यमिति काव्यकौतुकविहिता काव्यस्य शब्दव्यु. त्पत्तिं कविमूलकाव्यत्वप्रतिपादि(ता)का दर्शयति । तत्र युक्त 'तस्य कर्म स्मृत काव्यम् ।' इति । दृदयदर्यणे च 'तत्कर्ता च कवि प्रोक्तो भेदेऽपि हि तदस्ति यद्' इति काव्यमूल कवित्व प्रतिपादितम् । तत् पुनरस्य ग्रन्थकृतो नावर्जकम् अप्रातीतिकत्वात् । कविव्यापारश्च न सामान्येन किन्तु विभवादिघटनास्वभावः । अत एव नियमेन रसापेक्षी । सामान्येनेति । विशेषा पुनरस्य सर्गबन्धनाटकादय । जाड्य काव्यनाट्यविषय सुकुमारमतित्वम् । जाज्य चात्र शास्त्रविषय शास्त्रं चात्र दृष्टान्तत्वेनोपात्तमिति न प्रपञ्चयिष्यते। न फलभेदः न व्युत्पत्तिभेद । आधं काव्यम् ।

  • भवति तथापि) प्रसिद्ध च विधिनिषेधात्मक च यच्चरितमिति व्याख्या । यद्यपि चोत्पाद्य-

$ इद प्रतीकवाक्य व्यक्तिविवेकमूलकोशयोर्न दृष्टम् । किन्तु व्याख्यानप्रामाण्याद् व्यक्तिविवे कस्य विशे पृष्ठे षष्ठपक्तौ 'अपि च' इत्येतद्व्यवहितोत्तर पठनीयमिति भाति । तस्य च ध्वनिलक्षणघटके काव्यविशेषपदे इत्यर्थ ।

  • इद कुण्डलनान्तर्गत लेखकप्रमादागतम्

+ निषेधास्पदत्यस्य स्थाने निषेधात्मकेति व्याख्यातु पाठ स्यात् .