पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने प्रथमो विमर्शः । वस्तु काव्य भवति, तथापि तत्र तथा हृदयसवाद इति प्रसिद्धग्रहणम् । तावता काव्यमात्रेण । तत्र काव्ये नाट्थे च । प्रभेदपक्ष रूषयितु ग्रन्थ । [२१] अत एवेत्यादिना रमरहितसुन्दरशब्दा- थांपेक्षापक्षोऽति निराक्रियते । न च रसात्मन इत्यादौ वस्तुमात्रादिव्यङ्गयपक्षः परिहतः । +शक्यामिति । सामान्योपक्रमानपुसकलिङ्गता । वस्तुमात्रादीना रस प्रति व्यञ्चकत्वाद् व्यजक- दौचित्र्य च व्यङ्ग्यवैचित्र्याभावान तैरसो विशेषणीय । गोत्वस्य विशेष इति सम्बन्ध । ततो व्यञ्जकाद् (विवादे?) अस्य रसस्य । तयोरिति शब्दोपात्तवस्तुमात्रमादिग्रहणगृहीतश्चाल- झारो गृह्यते तत्र वस्त्वलकारौ समस्तौ व्यरतौ वा यत्र व्यङ्गयौ व्यञ्जके सक्रान्तौ तत्रैव ध्वनित्व स्यात् । न केवलरसयोगिनि काव्य इत्यव्याप्ति । प्रहेळिकादाविति अतिव्याप्ति । ननूभय- सद्भावे वैशिष्टय प्रस्तुतम् । तत्र का कथा रसाभावे वस्त्वादिमात्रभावे वैशिष्टयस्य । नैतत् । वस्त्वा- दीनामेव प्रयोजकत्वात् तन्मात्रकृत वैशिष्टयमुच्यते । तथा हि वस्त्वाद्यभावे रससद्भावेऽपि न भ्वनित्वमिष्ट भवता, वस्त्वादिसद्भावे त्विष्यत एव । अतोऽन्वयव्यतिरेकाभ्या वस्त्वादीनामेव प्रयो- जकन्वमिति प्रहेळिकादावतिव्यातिः । समासोक्त्यादाविति तत्रापि रसमयत्वेन काव्यत्वाद् रससद्भावे च ध्वनित्वात् । द्वैविध्यमेवेति रसस्य काव्यमावलक्षणत्वाद्वस्त्वलकारव्यापित्वेन तत्प्र- तियोगित्वाभावात्र प्रकारत्व प्रकारित्वेन प्रकाशमानत्वात् । न च तस्येत्यादिना अङ्गत्वकृत विशष दूषयति । अङ्गित्वेनेष्ठत्वादिति चमत्कारविश्रान्तिसारत्वाद्रसस्याङ्गित्वमेव नाङ्गत्वम् । किशे- त्यादिना अभ्युपगमवादेन रसप्रतियोगिना गौणस्य काव्यत्वेऽपि गौणत्वादेव तदाश्रयत्व न भवि- ध्यतीत्याह । अभिधेयार्थविशेषेति । अभिधेयस्यार्थस्य यो विशेषो मेघादेवैचित्र्येण वणन तस्य काव्ये समारोपात् काव्यविशेष इत्युक्ति । तदुपपत्तौ तस्य काव्यस्य । तत्पर्यवसायिनो विशे- षपर्यवसितस्य । तदवगतेः विशेषावगते । योऽश्वमारूढ इति लक्षणाविशेषादेव पुरुषविशेष- प्रतीति । अथेति । इह विशिष्टस्य वा लक्षण लक्षणाद्वा विशेषप्रतीति । तत्रोत्तरस्मिन् पक्षे विशे- षग्रहण न वक्तव्यामत्युक्तमित्याद्य पक्ष आश्रयिष्यते । तत्रापि काव्यमात्रलक्षणादेव विवक्षितविशे- षप्रतीति काव्यमात्रस्य रसमयत्वेनेष्टत्वात् । अन्यस्याकाव्यत्वम् । रसयोगिनि च ध्वनिव्यवहार इति च। सर्वथा विशेषग्रहण न कर्त्तव्यम् । अत्र व्यक्तिवादिनस्त्वयमभिप्राय --~-इह प्रसिद्ध लक्ष्य- माश्रित्य लक्षण प्रवर्तते। लक्ष्येच विविध काव्य दृश्यते मुख्य गौण च। तत्र मुख्य यत्र व्यङ्गयस्य प्राधान्य शिष्ट गुणीभूतव्यङ्गयादि गौणम् । उभय च ग्राह्यमनादिकालिकव्यवहारसिद्धत्वात् । तेन गौणमुख्यन्याय इइ नाधीयते । तत्र च गुणीभूतव्यङ्गयनिरासाय विशेषग्रहण कर्त्तव्यम् । सर्वस्यैव काव्यस्य रसमयत्व न गुणीभूतव्यङ्गयादिसद्भाव इति चेन्न । अस्फुटरसस्याङ्गभूतरसस्य वा काव्यस्य विद्यमानत्वात् । यत्र हि प्राधान्येन स्फुटोऽङ्गी रस प्रतीयते तत्र ध्वनित्वमन्यत्र तु काव्यान्तरत्वमिति । रसस्य च विश्रान्तिसारत्वादशभावो नोपपन्न इति चेन्न । स्वापेक्षयैतद्रूपत्वात् । व्यापकरसान्तरापेक्षया तु न्यग्भावनाङ्गत्वाद् विचोरभाण्डागारिकवत् । तथाह्यजीभावमेव मनसि- कृत्य मुनिना रसेध्वपि स्थायिसञ्चारिव्यपदेशः कृत - “सर्वेषामेव सद्भावे रूप यस्य भवेद् बहु । स मन्तव्यो रस स्थायी शेषाः सञ्चारिणो मता.॥"

  • शक्य इति तु मूलकोशयो.

+ व्यक्तिवादिपक्षे पतन् विशेषग्रहण समर्थयते-अत्रेत्यादि.