पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Pimi Tani muyenewturanatimgain anchettyegineri varmins व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। वाच्यावचनमपि द्योतितमेव । एतेन रूपकाश्रयेणावाच्यवचनमपि द्योतितमेव । तदेवं महाविदुषां मार्गमनुसृत्य सहृदयशिक्षादराय विचारय(न्दर )तोऽस्य महामतेर्न कश्चित् पर्यनुयोगलेशस्या- प्यवसर इत्यलमतिप्रसझेन । एतस्य चेति सामान्येनानौचित्यस्य । दोषा इति काव्यस्य विकृतत्वापादनाद दूषणाद् दोषा इति । सुग्ध इति पृष्टस्याप्रतिवक्तृत्वे त्रीणि कारणानि । प्रतिवचनाप्रतिभानलक्षण मौरध्य प्रतिभानेऽप्यप्रौढरूपत्वमसात्वम् । प्रौढत्वेऽपि गुणासहिष्णुत्वलक्षण मात्सर्यम् । तान्यत्र सन्दि- ह्यमानतया क्रमेणोक्कानि । य किलेल्यत्रैव च्छेद ! छात्राभ्यर्थनयेति प्रमृत्वस्य अङ्गीकृत. मिति प्रतिवक्तृत्वस्य च निर्देश. । पौरोभाग्यं दोषैकग्राहित्वम् । ननु यदि परकीये काव्ये परिहाराय दोषाणा विचार क्रियते, तत् कि निजकाव्ये न तेषा परिहार । तथा च 'भजते मा- तसर्यमौन नु किम्' इत्यतोऽनन्तरम् ‘इति पृष्ट' इत्येव क्रमेणेतिशब्दो निर्देश्य. क्रमान्तरेण निर्दे- शात् क्रमभेदो न युज्यते । एवमन्यत् (शोकापदानादौ ?) ज्ञेयम् । तदर्थमाह -स्वकृतिध्विति कृति. काव्यम् । संरम्भ इति कुत्सिता करिण करिकीटा 'कुत्सितानि कुत्सनै.' (२-१-५३) इति समा- स। करिकीटानामाशाद्विरदै प्रतिनिर्देश । मेघशकलाना तु कल्पान्ततोयदै य इत्यत्रैव च्छेदः । अय श्लोको वक्रोक्तिजीविते वितत्य व्याख्यात इति तत एवावधार्य. । [३८] तावच्छब्दो विवे- याविमर्शत्रयस्यैतच्छ्लोकगतस्योपक्रमद्योतक । सम्बन्धोएपत्तेरिति । अय भाव -- ‘समर्थः पदविधि' (२-१-१) इति वचनात् समास सामथ्यनिमित्तक । सामर्थ्य च सङ्गतार्थत्व, सङ्गतत्व च सम्बन्धः । स चात्र विशेषणविशेष्यभावः । पर्युदासस्यैव विशेषण नजा अब्राह्मण इति यथा । न चात्र वक्ष्यमाणन्यायेन पर्युदासो घटत इति । नन्वब्राह्मण इत्यादौ नञ् कथ विशेषणम् । वि- शेषण हि विशेष्यस्योपरञ्जक भवति । न च नान्दो विरुद्धत्वाद्विधिमुपरजयति । तत् कथ- मस्य विशेषणत्वम् । नैतत् । अब्राह्मण इत्यादौ ब्राह्मणशब्दो ब्राह्मणसदृशे क्षत्रियादौ वर्तते। सा चाक्षत्रियादौ ब्राह्मणशब्दस्य वृत्तिना द्योत्यते । तदुक्तम् – 'नजिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थ' इति । तत्र च शब्दशक्तिस्वाभाव्य कारणम् । यथा चैतत् तथा नसूत्रभाष्यादवसेयम् । प्रधानत्वमिति । यत्र विवे प्राधान्य प्रतिषेधस्याप्राधान्य नत्र उत्तरपदेन सम्बन्धः समर्थसमास एकवाक्यत्व च तत्र पर्युदास 'किञ्चिद्वर्जयित्वा कस्यचिदुपदेशो निरास' इति निग- मनात् । तत्र कारिकायां त्रय निर्दिष्ट द्वय चाक्षिायते । जुगोपेति । अत्र नअर्थविशिष्टस्योत्तर- पदार्थस्य विधिर्न त्रस्तत्वादिनिषेव । तत्राप्यत्रस्तत्वादे. सिद्धत्वात् तदनुवादेन गोपनादि विधी- यते इति पर्युदासत्वम् । अप्राधान्यमिति । यत्र प्रतिषेधस्य प्राधान्य विधेरप्राधान्यं ना क्रि- यापदेन सम्बन्धोऽसमर्थसमासः वाक्यभेदश्च, तत्र प्रसज्य प्रापय्य प्रतिषेध इति प्रसज्यप्रति- षेधः । अत्र कारिकायां त्रये निर्दिष्टेऽन्यद् द्वयमाक्षिप्तम् । नवेति । अत्र दृप्तनिशाचर प्रति निषेधः प्रतीयते न त्वदृप्तनिशाचरविधिरिति प्रसज्यप्रतिषेधता । संरब्धवत्प्रतिषेधो छत्रे- ति । संरब्धवान् यः पुरुषस्तगता येयं संरब्धता संरम्भणक्रिया तस्या वक्ष्यमाणन्यायेन प्रतिषेध इत्यर्थः । असंरब्धवाद्विधिारत सरब्धवत्सदृशस्य संरम्भसशक्रियाकर्तुरुदासीनप्रायस्क विधिरित्यर्थः । यदुक्तं नमिव युक्तमित्यादि । तन्नेति संरब्धवत्प्रतिषेधे । न चासाविति प्रति-