पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CATIrriedshy intui imeatreyeer finanngaamarshathog nagtainmi unaina) व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । घेधति । तसिद्धिपक्ष इति विवक्षितो य प्रधानभूतनिषेवलक्षणोऽर्थस्तस्य सिद्धिपक्ष इत्यर्थ । अस्य विध्यनुवादभावस्येति । ननर्थस्य विधिरुत्तरपदार्थस्यानुवाद इत्यस्य । समासे हि नअर्थोपसर्जन उत्तरपदार्थ प्राधान्येन प्रतीयते । काव्याथैति । अत्र व्यवच्छेद्य प्रसज्यप्रतिषेध प्रदर्श्य परिच्छेद्य पर्युदासमुदाहरति । ननु प्रसज्यप्रतिषेधे नत्र क्रियान्वयेऽसरब्धवानित्यत्र सरम्भक्रियानिषेधो भविष्यति । तत् कोऽत्र दोष इत्याह-क्रियाकत्रंशभागिति । अय भाव - असरब्धवानित्यत्र द्वादशौ क्रियाश कारकाशश्च । तत्रोभयाशभागर्थनिषेधे शब्दशक्तिस्वाभाव्याद्वाक्ये क्रियाशनिषेधस्तस्य प्राधान्येन विवक्षितस्यापरामर्शों ( मनुक्ताद् ?)विधेयाविमर्श । यथा च प्रसज्यप्रतिषेवे समासो नेष्टस्त- थोक्तनयेन पर्युदासेऽप्यममासो नेष्यत इत्याह-[३९]ननु साध्विति अत्र 'न कुर्वते ति करणकि. याकर्तृसदृशेन क्रिया प्रत्युदासीनप्रायेणेत्यर्थ । अकुर्वतेति वाच्ये न कुर्वतेति क्रियाशनिषेध प्रतीतेप- रीत्यकारी । एव नोचितमपीत्युचितत्वमात्रानपेध प्रतीतेवैपरीत्यकृदेव । तच्छवणं क्रियाश्रव- णम् । तयोरिति सिद्वार्थी वृत्ति । सान्यार्थ वाक्यम् । असूर्यपश्यादिष्विति । अत्रापि नत्र सूर्ये- णोतरपदाथन नाभिसम्बन्ध , अपितु तद्रष्ट्थेनैव । तत्रापि कर्जश प्रधान न क्रियाश कर्तरि खशो विवानादिति पूर्ववदवसेयम् । भुङ्क्त इति अत्रहि वाक्यस्य क्रियाप्राधान्य प्रतीयमानभवत्यादि- क्रियापेक्षे नत्र समन्वये श्रद्धभोजी न भवतीति वाक्यार्थ । अश्राद्धभोजोत्यत्र तु नना भोक्तुस्सम- न्वये श्राद्धभोक्तव्यतिरिक्तोऽपि विघसाश्या प्रतीयते । यतश्चात्राश्राद्रभोजीत्यादौ समासे प्रति- षेधो नेष्ट , तत एव समर्थसमासस्तद्विपर्ययेणासमर्थसमासश्च कारिकाद्वयेनोक्त । वाक्यभेदाभेद- योस्तु सामर्थ्यात् प्रतीतिरित्यवचनम् । एवकेम विधेयाविमर्श विचार्य द्वितीयमुदाहरति-योऽसावित्यत्रेति तच्छब्द प्रत्याका- झाया केनाप्यनिवर्तनात् । [४०] एकतरोति क्वचिद्यच्छब्देनोपक्रमे तच्छब्देनोपसहार । क्वचि- त्तच्छब्देनोपक्रमे यच्छब्देनोपसहार प्रसज्येत । एतच्च द्वय शाब्दोपक्रमोपसहारक्रमेणोदाहरिष्यति। तयोरपीति । अपिशब्दो नअर्थ समुच्चिनोते। प्रसज्यप्रतिषेधे हि नअर्थो विधेयो निषेभ्योऽर्थोऽनु- वाद्य । पर्युदास तु विपर्यय इत्युक्त प्राग् । अनुवाद्यविधेयेति । यत्तदोर्नियाभिसम्बन्धेऽपि शब्दशक्तिस्वाभाव्याद्यदोऽनुवाद्यविषयत्व तदो विधेयविषयत्वम् । नित्यत्वादिति । अपेक्षा- प्राणतयावस्थानात् । शाब्द इति शब्देनोभयो सस्पर्शाद् । उभयो. सस्पर्शाभाव आर्थत्वम् । तत्र द्वयी गति अन्यतरानुपादान द्वयोरनुपादान वा । अन्यतरानुपादानमपि यत्तदाश्रयभावेन द्विधा । क्रमेण चैतदुदाहरिष्यति। उपकाल्पितो नित्यसापेक्षत्वादुपस्थापित । अत्र च प्रसिद्धादि- विषयत्व यदा निर्दिष्टम्।सा कला या प्रसिद्धति स्फुटत्वेन प्रतीते. । क्वचित् तदोऽपि व्यपदिश्यते तस्य यच्छब्देनैकविषयत्वात्। ते इति ये मयैवानुभूते इत्यर्थ । अन्वियष स इति । अत्र स इति य.प्रक्रान्त इत्यर्थ. । उपात्तवस्त्विति वक्ष्यमाणश्लोके कोऽपीति यदुपात्त वस्तु तद्विषयत्वेनेत्यर्थ । अस्य उपक्रमोपसहारस्य प्रक्रान्तवस्तुविषयस्य । तच्छब्दात् प्रयोगातिप्रसङ्गनियमं प्रकाशयन् परिहार्य विषय प्रदर्शयति । -[४१] यस्त्वे- कवाक्य इति । एकवाक्यग्रहणेन परामृश्यस्य प्रत्यक्षायमाणतोक्ता । ततश्च वाक्यभेदे न दोष । कर्तृत्वेनेति प्राधान्य सूचयति अप्राधान्यस्य परामर्शो न दुष्यतीति ख्यापनार्थम् । स इत्यर्थः 4. 'यश्चैकवाक्य इति मूलकोशयो. पाठ.