पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । तत्र हीति इदमादिसहितप्रयोगे । तयोरिति यत्तदो । तदितरेति यदृच्छयैकतरप्र- योगे अन्यतरापेक्षेत्यर्थ । सुतरामिति इदमादिसाहित्येन प्रयुक्तो यच्छब्द स्वभावतो विका- सितास्य एव तच्छब्द प्रतीक्षते, एव तच्छन्दोऽपि यच्छब्दमिति ज्ञेयम् । एतच्च क्रमेणोदाहृत यदे- तदिति, सोऽयमिति च । (तदन्येन ग्रन्थेन प्रदर्शक उपयुज्यते ?) तद्वदस्य यच्छब्दस्य न प्रका- न्तपरामर्श सम्बन्धो, नापि प्रक्रस्यमानवस्तुसमन्वयमार्गोपदेशे तच्छब्दाध्याहार शरणम् । स च सत्काव्यकलङ्कायमानो हेय एव । [४३] अगुक्त्वैवेति यत्तदोर्म ये परामृश्यमनुक्त्वा यत्र निरन्नरः प्रयोग यथा 'यत्तदुर्जितमि'त्यादी तत्र तयोर्यत्तदोर्यथायोग पुन प्रयोगो न दुष्यति यथा 'नून तदपि हारितमि'त्यादौ । तथा तयोर्यत्तदो । निरन्तरनिर्दिष्टेष्विदमादिषु सत्सु तयोर्यत्तदो ते- धामिदमादीना च सङ्घटितत्वेन स्थिताना यथायोग यत्तदो. प्रत्यवेक्षा न निवर्त्तते यथा अप्रयु- क्तेष्विदमादिषु केवलयो पृथगवस्थितयोरपेक्षा न निवर्तते तद्वत् प्रयुक्तेष्वपीयर्थ यथा 'यदेत- चन्द्रान्तरि'ति, ‘सोऽय पट' इति च । एव प्रकृतेऽ 'योऽसाविति । तत्साङ्कपैति । यच्छ ब्दस्य पृथगिदमादिसाहिये तच्छब्दस्य च पृथगिदमादिसाहित्ये यत्तदो परस्परसाहिये च बहवो भेदा , तेषामुदाहरणेषु दिङ्मात्र दर्शितम् । सम्प्रति प्रायेण वाक्यार्थसमन्वयव्यापिनोयत्तदोर्योऽय नित्याभिसम्बन्धत्वेनोपक्रमोपसहार- कम , स प्रसङ्गाद् विचार्यते । स च पुष्टापुष्टदुष्टभेदेन त्रिविध । पुष्टोऽपि प्रथम शाब्दत्वार्थत्वभेदेन द्विविध शाब्दोऽपि यच्छब्दोपक्रमम्तच्छन्दोपक्रमश्चेति द्विविध । आर्थोऽपि यच्छब्दमात्रानुपादाने तच्छब्दस्योपात्तस्य प्रसिद्धानुभूतप्रक्रान्तविषयेण यदाभिसम्वन्यान् त्रिविव । यच्छब्दस्य च तच्छ- ब्दानुपादाने केवलमुपात्तस्य प्रक्रान्तविषयेण कल्पिततत्कर्मादिविषयेण च तदाभिसम्बन्धाद् द्वि- विध । उभयानुपादाने तु द्वयोरुपात्तवस्तुविषयताकपन एक एव भेद । एव शाब्दो द्विविव आ- र्थ. षड्भेद इत्यष्टविधो यत्तदोरुपक्रमोपसहारक्रम पुष्ट । तचैतचेह ग्रन्थकृतोदाहृतम् । यत्तदूर्जि- तमित्यादौ तु शाब्दस्यार्थस्य चोपसहारक्रमस्य सङ्कीर्णत्वमिति नास्य पृथग्भाव । अपुष्टस्य दुष्ट- माये प्रसङ्गेन वर्णयिष्यमाणत्वादिदानी दुष्टो व्याक्रियते । तत्र यत्तदो स्थाने तच्छब्दयच्छब्दनै- रन्तर्येण सामानाधिकरण्येन चेदमादीना दुष्टतैव तेषामतदर्थत्वात् तन्निकटे च प्रयुज्यमानाना प्र- सिद्धिमात्रपरामर्शकत्वाद् , यथा 'योऽसौ कुत्र चमत्कृतेरिति । एव तच्छब्दसाचिव्येनेदमादीना- मुदाहरणमूह्यम् । विप्रकृष्टत्वेन सनिकृष्टत्वेऽपि वैयविकरण्येन वा तेषा प्रयोगे न दुष्ट नादुष्टमित्य- पुष्टत्वमेव यथा 'योऽविकल्पमिति ‘स्मृतिभू स्मृतिभूरि ति च । एव तच्छब्दोपक्रम उदाहर्त्तव्यम् । तथा तच्छब्दस्य परोक्षायमाणार्थप्रत्यवमर्शित्वादेकवाक्यस्थप्रत्यक्षायमाणप्रधानभूतार्थप्रत्यवमर्श दुष्टत्व 'यथा स व शशिकलामौलिरित्यादौ । प्रधानग्रहणेन न कर्तृमात्र निदिष्टम् अपि तु कारकान्तरमपि प्राधान्येन विवक्षितत्वात् प्रत्यक्षायमाणम् । तेन । “स मेदिनी विनिर्जित्य चतुर्जलधिमेखलाम् । सचिवार्पिततद्भारस्तस्यामास्त यथासुखम्" ॥ इति मेदिन्यास्तच्छब्दपरामर्शो न सुन्दर इत्याहु । यथा यत्तदोः पदार्थवाक्यार्थगतत्वेन द्विचिवा- वस्थाने यदेकस्य पदार्थनिष्टत्वादन्यस्य वाक्यार्थविषयत्व तद् भिन्नविषयत्वेन नित्याभिसम्बन्ध- परिपन्थि दुष्टमेव । यथा- + 'यश्चैकवाक्ये कर्तृत्वेन' (मू पृ ४१) इत्यत्र कर्तृपदस्य प्रधानोपलक्षणतया प्रधानग्रहण बोध्यम् .