पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CRIMinihy intui meaninewestinuumarninthy moniumiririts व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । इत्यत्र यद्यपीत्यपेक्षितम् । न च तदेकवाक्यताया सम्बन्धु योग्यम् । एकत्रापि वाक्ये गुणक्रियादिगत कत्पित भेदमाश्रित्य प्रकान्तवस्तुविषयतच्छब्दप्रयोगे प्रधानाक्रियाया परामृश्यस्थ प्रधानत्वादेव स्वरूपेण निर्देशे गुणक्रियादिविषये तु तच्छब्देन परामर्श न्याय्ये यद्विपर्ययकरण तद् दुष्टमेव । यथा ---- "प्रजानामेव भूत्यर्थ स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रस रवि ॥" इति । 'बलिं प्रजाभ्यो जाह स तासामेव भूतये' इति युक्तः पाठः । तथैकविषयत्वे यत्तदोरेकस्य द्रव्यादिविषयत्वेऽन्यस्य कालादिगोचरत्वे दुष्टमेव । यथा-- " त्वमेवसौन्दया स च रुचिरताया. परिचितः कलाना सीमानं परमिह युवामेव भजथः । अयि । द्वन्द्व दिष्टया तदिति सुभगे। सवदति वा- मत शेष यत् स्याजितमिह तदानी गुणितया ॥" अत्र 'अत. शेष चेत् स्यादिति पठनीय चेच्छब्दस्य यदिशब्दार्थत्वात् । तथा प्रक्रान्तविषयत्वे तच्छब्दस्य व्यवस्थिते तद्विषये प्रक्रम्यमाणवस्तुगोचरत्व दोष एव । यथा- "ये सन्तोषसुखप्रबुद्धमनसस्तेषां न भित्रो मदो येऽप्येते धनलोभसङ्कुलधियस्तेषा तु दूरे नृणाम् । इत्थ कस्य कृते कृत. स विधिना तादृक् पद सम्पदा स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥" अत्र मेरुः प्रक्रम्यमाण स इत्यनेन परामृष्ट । एतद् वाक्यभेद उदाहरणम् । एकवाक्ये तु "तीर्थे तदीये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।" इति देयम् । तथा निवर्वीप्सेनैकेनोपक्रमे सवीप्सेनान्येन परामर्शो दुष्ट एव । यथा-- “य. कल्याणबहिर्भूत स स दुर्गतिमश्नुते।" सदीप्सेन त्वेकेन प्रक्रमे निर्वाप्सेनान्येनोपसंहार सवीप्सस्य प्रत्यवमृष्टत्वाद् दुष्टोऽन्वय ) किन्त्व- पुष्ट एव । यथा- "कल्याणाना त्वमसि महसामीशिषे त्व विधत्से पुण्या लक्ष्मीमिह मयि चिरं घेहि देव ! प्रसीद । यद्यत् पाप प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे भद्र भद्रं वितर भगवन् ! भूयसे मङ्गलाय ॥" इति । अत्र यद्यहिति निर्दिष्ट केवलेन तच्छब्देन परामृष्टम् । एतद् यच्छब्दस्य सवीप्सत्योदाह- रणम् । तच्छब्दस्य तु सषीप्सस्य निर्वीप्सेन परामर्श उदाहरणं यथा- "क्षान्त न क्षमया गृहोचितसुख त्यक्तं न सन्तोषतः सोढो दुस्सहशीतवाततपनक्लेशो न तप्त तपः। ध्यातं नित्यमहर्निश नियमितप्राणैर्न शिम्भोः पद तत्तत् कर्म कृत यदेव मुनिभिस्तैस्तै. फलैर्वश्चिताः " ___ * *न दुष्टान्वय' इति पाठः स्यात् + 'शौरेः' इति पाठान्तरम्