पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ARSAPTAmaln e raibagalawedanaian व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। प्रीहि समानाधिकरणानाम्' इति वचनात् प्रायेण बहुव्रीहि समानाधिकरणविषय एव ! सुसूक्ष्म. जटकेशादौ तु व्यधिकरणानामपीच्यते । तत्रैव समानाधिकरणे पदार्थे । यदा सङ्ख्याया इति (व्यधिकरण ?) सङ्ख्यापूर्वो द्विगु' (२-१-५२) इति वचनात् । प्रतिषेधस्येति 'नन्' (२ २-६) इति नसूत्रारम्भात् । द्वितीय इति व्यविकरण । कारकाणामिति 'कर्तृकरणे कृता बहुलम्' (२-१-३२) इत्यादिना । सम्बन्धस्येति षष्ठी' (२-३-५०) इत्यादिना । तत्रापीति कारकस- म्बन्धयोगे अधिनि उपकुम्भमित्यादौ । स्वाश्रयो विशेष्यम् । विधेयधुरामिति शब्दयुत्ते यो विधेय तस्य कक्ष्या वास्तवी विधेयतामित्यर्थ । अनूद्यमानकल्पतयेति । शाब्द प्राधान्यम- नपेक्ष्य वास्तवेन प्राधान्येनेत्यर्थ । अस्तमियादिति एकार्थीभावाद् विभक्तत्वेनाप्रतीतेरित्यर्थ.। एकत्रेति विधेयानुवाद्यगर्भवे । अन्यत्रेति सम्बन्धमात्रप्रतिपादने। *विकल्येतेति महाविभाषया व्यवस्थितविभाषात्वादिति भाव । एकस्यैवेति । विशेषणगतस्य प्राधान्यस्य । अन्यस्य तद्- तस्यैवाप्राधान्यस्य । एकस्य हीति, अपरस्य पुनरिति च ! अत्र फलभेद इत्यत्र प्रक्रान्तं फल सम्बन्धनीयम् । अत्र चोदयति विरोधस्योभयवस्तुनिष्ठत्वासिद्धरत्राभाव उक्त । तदसत् । (तर्हि ?) न हि सहानवस्थानलक्षणो वस्तुगत एक एव विरोध( . ?)भेदो, य शीतोष्णादौ लब्ध- वृत्ति । किन्तर्हि परस्परपरिहारस्थिततालक्षणो वस्त्ववस्तुत्वाश्रयो द्वितीयोऽप्यस्ति विरोधप्रकार । तदा हि यदि वस्त्वाश्रयो न सम्भवति विरोधो वस्त्ववस्तुत्वाश्रयस्तु कथ न स्यात् । अतश्च स्यात् पूर्वपक्षवेलाचा 'भावाभावयोरिवे'त्युक्तम् । नैष दोषः। वस्त्ववस्त्वाश्रयस्य विरोधस्य तादात्म्यनिषेधे व्यापारात् । यदि नाम प्राधान्य, तस्यामेव कक्ष्याया स्वयमप्राधान्यं न स्याद् अप्राधान्ये वा प्राधान्यम् । प्राधान्यविधेये पुनरपेक्षान्तरेणाप्राधान्य कथं न स्यात् । न स्याद् , यदि शीतोष्णवद् द्वयोर्वस्तुत्व स्यात् । न चात्रैतदस्ति वैवक्षिकस्यावस्तुलात् । यथा राज- पुरुष इत्यत्र राज्ञो वैवक्षिकमेव प्राधान्य वास्तव पुनरप्राधान्यमेव तद्वदत्रापि द्रष्टव्यम् । तदयमत्र पिण्डार्थ ससर्गनिषेधोऽत्र कर्तव्य. । स च वस्तुद्वयनिष्ठ इति द्वयोरत्राभावानैकेनापरत्र प्रति- षध इति। [४४]अन्येनेति विशेष्याभिधायिनेत्यर्थ. । अन्योन्यमिति । परस्परविशेषणाना यद्यपि 'विशे- षण विशेष्येण' (२-१-५७) इति विशेषणस्य विशेष्येणैव समास उक्तः, तथापि 'काणखञ्जादिषु सिद्ध विशेषणविशेष्ययोर्यथेष्टत्वाद्' इति वचनेनैकस्य विशेष्यत्वविवक्षामाश्रित्य परस्पर विशे- षणानां समास समर्थितः । तदभिप्रायेणान्योन्यमिति सम्भावना । दारसख इति दाराणा सखेति तत्पुरुषः कर्तव्यः । बहुव्रीहौ 'राजाहस्सखिभ्य (५-४-९१)इति टच् न स्यात् । हे हस्तेति। 'मृतस्य शिशोर्द्विजस्ये सत्र समास शङ्कित' । 'रामस्य पाणिरसी ति तु षष्टीसमास उदाहरणम्। अत्र क्वचित् कर्तृणा कर्मणाश्च प्रथमान्ताना कापि सम्बन्धिना कर्मणाञ्च षष्ट्यन्तानां कुत्राप्याम- न्त्रणानां समास शङ्कित । [४५] वक्ष्यमाणनयेनेति । 'व्यास पाराशर्य' इत्यादिविचारेषु । चापाचार्य इति । अत्र हि त्रिपुरविजयित्वाद्यनुवादेन चापाचार्यत्वादिविविः । अनूद्यमानश्वार्थों इवेधेयस्योत्कर्षमावहन् प्रतीयते । न चैवमिति उपेन्द्रवज्रस्थाने इन्द्रवज्रप्रयोगात् । उपगतम- स्माभिरिति । 'दु श्रवत्वमपि वृत्तस्य शब्दानौचित्यमेव । तस्याप्यनुप्रासादेरिवे' त्यादि वदद्भिः। अत्र 'यथा च कारणगुणे' त्यादिग्रन्थ अन्तरश्लोकपर्यन्त 'प्रत्युदाहरण यथा त कृपामृदुरि'त्यतः

  • उपकल्प्येतोते मूलकोशयोः पाठ . + ३७. पृष्ठे मूले.