पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CAMPidity intel sweetener fan unnpeamareherity naginnind worninml व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ' (४ पा ५सू ) इति । गुरुदत्तमिति गुरुणा दत्तमिति, वाच्यम् । तत् तस्या इति सीताया विशेषणभूताया सीताकर्तृकाया गमनक्रियाया इत्यर्थ । गुर्व- र्थमिति गुरवे इद गुर्वर्थमिति क्रियाविशेषणमेतत् । क्रियाविशेषणानां कमत्व नपुसकलिङ्गत्व च। इप्सिततमत्वे तु षष्ठी स्यात् । अर्थनक्रियामुखेनेति अर्थयत इति निगमनात् । तत् तस्येति तद् गुर्वर्थमिति विशेषणम् । तस्यार्थिन । अवमतताम् अनभिप्रेतताम् । अवमतत्व गर्हितत्वम् । सुतनिर्विशेषामिति । क्रियाविशेषणमेव । प्रदक्षिणक्रियेति अत्र प्रदक्षिणक्रियाया अत्य- यक्रियाकर्मभूताया अन्तराथहेतुकोपनिमित्तत्वात् प्राधान्यम् । एव प्रथमप्रबोधित इति प्राथ- म्यस्य । तथा यथाकामत्वयथाकालत्वयोज्ञेयम् । यदवलोकनेति रूपसम्पत् परामृष्टा । [४९] स्वहस्तेनेति करणपदम् । स्वहस्तलिखितानीति स्वहस्तशब्दोऽत्रादरप्रतीतिहे- तुकरवेन लेखन प्रत्युत्कर्षनिमित्तमापे समासे गुणीकृत । यूर्ववदिति कृतसमासवैशसम् । तच्च विप्रदत्तमिति पठे। पितामहपितामहतयेति पितामहो ब्रह्मा पितामहः पूर्वपुरुषो यस्य । त- योर्जन्मनिधनयोः । तद्वतो जन्मनिधनवतः । ताभ्यां जन्मनिधनाभ्याम् । कृतान्ताधिकमि- ति आसमुद्रात् क्षितीशानामिति च वाच्यम् । अपादानसमानन्यायत्वादवधिरपि पञ्चम्यन्तोऽत्र गृह्यत इति प्रत्युदाहरणोपपत्ति. । उपाग(ते?)मेति उपागता इति निर्दिष्टा उपागमक्रिया। [५०] रणभूषित इति । अत्र रणभुवीति वाच्यम् । शोचनीयतागति क्रिया । तत्र समागम- प्रार्थना हेतुत्वेनोपात्ता । तस्या सम्बन्धिद्वारेण सम्बन्धित्वमुखेन कपालिन इति विशेषणम् । अत्र सम्बन्धिशब्दो भाववृत्ति सम्बन्धित्वे वर्तते, यथा 'येकयोक्चिनैकवचने' (१-४ २२) इति, सधीरमुवाचति । तत्तस्या इति । तद्विशेषणम् । तम्यास्समागमप्रार्थनायाः। तत्र शोचनी- यतागतौ । सामर्थ्यमव्यभिचारेण सम्पादकत्वम् । तस्य सकलेति तच्छब्द कपालिन इत्यस्य परामर्शक । विशेष्येण समागमप्रार्थनयेत्यनेन । प्रत्यवर गुणभूतम् । एव तातस्येति, आर्य- स्येति, स्कन्दस्योत, तवेति चेत्येषा विशेषणानामुत्कर्षसमर्पकत्व ज्ञेयम् । *तस्यैवेति गौरवदुरारो- पत्वनिवन्धनस्य हरस्य । तच्चेति प्राधान्यम् । तस्येति हरस्य । कल्पितार्थस्येति विस्तारि- तकृत्रिमत्वमात्रवाचिनोऽधिज्यत्वमात्रलक्षणार्थारोपात् । अप्रयुक्तस्येति उक्तनयेनास्मिन्नर्थे कवि- भिरप्रयुज्यमानस्य । गुणान्तरलाभ इति वक्ष्यमाणलक्षणस्य वाच्यावचनस्य परिहारात् । (अत्रेति ?) 'एव कृतम्' इत्यत्र करणम् । [५१] निष्क आभरणविशेष । विभक्त्यन्वयेति श्रूयमाणाया विभक्तरित्यर्थः । तथा च षष्ठया आक्रोशे' (६-३-२१) इति ज्ञापकम् (रूपकमुपदेश इष्यत इति ?) प्रमाणान्तरेण 'लोको वेदस्तथाध्यात्म प्रमाण त्रिविधमि'त्युक्तरूपेण सिद्धौ यौ स्वस्य विशेषणस्योत्कर्षापकर्षों तदाधायिनाम् अर्थाद्विशेष्य प्रतीत्यर्थ । आर्थ वास्तवम् । अलुकमाह 'षष्ठया आक्रोश'(६-३-२१)इत्यनेन । चिन्त्यमिति । एतदवगमाय विचार्यमित्यर्थः । समासेच विभक्तिलोपादिति ! इह हि विभक्तिश्रवणाश्रवणे(वा १) अन्वयव्यतिरेकाभ्या विशेषणगतयो- वास्तवयो. प्रयोजकता भजेते । ते तु प्रायेण वाक्यसमासगतत्वेनोपलभ्यमाने समासस्य विभ- क्त्यश्रवणाद्विधेयाविमर्शतामुत्पादयत. । अत एव समासेऽपि यदि विभक्ति. श्रूयते तदा न विधे- + आसमुद्रादित्यत. प्राक् 'कृतान्तादधिकमिति' इत्यपेक्षितमिति भाति * मूलकोशयोस्तु एवकारो न दृश्यते, । 'मात्रेति' इति स्यात् . ६ प्रशब्दात् प्राक् 'प्राधान्यगुणभा- वयो.' इति पूरणमपेक्षित भाति.