पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Pawanitrill Tutathmandunwriters andummimantrityagnirvivoris २८ व्यकिविवेकव्याख्याने द्वितीयो विमर्शः। साविमर्शी यथा दास्या कामुक इत्यादौ । समासस्तु तत्रैकपद्यादिप्रयोजनत्वेन कृत. । तन्निब- न्धनेति उत्कर्षापकनिबन्धना । एवञ्च विभक्त्यश्रवणान्वयव्यतिरेकानुविधायित्व विधेयाविम- शस्य व्याप्त्या प्रदर्शित भवति। एवञ्च सप्तप्रकार तत्पुरुष निरूप्याव्ययीभाव निरूपयति अव्ययीभाव इति । समापं विशेष्य प्रति दयितस्येति याविशेषण तत् तस्य समीपस्येति योजना । मध्येव्योमेति पारे मध्ये षष्ठया वा(२-१-१८)इत्यव्ययीभाव । सचेति प्रकर्ष । एवमियता द्वन्द्ववर्ज समासवृत्तिर्विचारिता ! इदानमितिदेशमुखेन कृत्तद्धितवृत्तिनिरूप्यते अनेनैवेत्यादिना । विवक्षाविशेषादित्यकारप्रश्ले- षः। ५२] सर्व कषतीति 'सर्वकूलाभ्रकरीरेषु कष '(३-२-४२) इति खचोऽय विषय । बिभर्ति यः इति 'कुक्षिभरिश्चेति निपातितस्य कुक्षिम्भरिशब्दस्यायं गोचर । विधुन्तुद इति 'विध्व- रुषोस्तुद' (३-२-३५) इति खशप्रत्ययस्थानम् । शीर्षच्छेदमिति 'शीर्षच्छेदाद्यच्च' (५-१-६५) इति तद्धितस्थ यत्प्रत्ययस्येद पदम् । तैरिति कषणादिभि । सर्वार्थस्येति, कायोपलक्षणस्य कुक्षेरिति, विधोश्चेति (व्यक्त स्थित १) उत्कर्षमाद्धतां प्राधान्येन विवक्षेत्यत्र साम- स्त्येन योजनीयम् । शीर्षच्छेदस्य चेति उत्कर्षमादधत. प्राधान्येन विवक्षेति सम्बन्धनीयम् । पूर्वेभ्योऽस्य पृथनिर्देशस्तद्धितवृत्तिविषयत्वेन भिन्नजातीयत्वात् । अत्र च सर्वार्थादीना चतुर्णा- मुत्कर्षाधाने समनन्तरनिर्दिष्ट भुवनाभयेत्यादिचतुष्टय क्रमेण हेतुत्वेन द्रष्टव्यम् । तदपीति चरि- तम् । कषणादिकर्तृध्विति खलौदरिकराहाध्वित्यर्थ । रामोऽस्मि सर्व सह इति । 'पूस्स- वयोर्दारिसहो (३-२-४१)इते खचोऽयावेषय । दशरथस्य हि प्रसूतिरसाविति । (तस्या- पत्यमिति नच्प्रत्यये)तद्धिते कृते दाशरथिशब्दस्याय गोचर । वाक्ये तु यद्यपीति तदुक्तम् - 'क्रियाप्रधानं गुणवदेकार्थ वाक्यमिष्यते' इति । अन्य इति वक्ष्यमाणन्यायेन शब्दकृतसामो- क्ति ! स इति प्रधानभावेनेत्यत्र निर्दिष्ट प्रधानभाव शब्दार्थसामर्थ्य विवक्षाकृतानां त्रयाणामपीति शब्दकृतं शब्दसंस्कारमहिना निष्पन्नं यथा कर्मधारयादुत्तरपदस्य । अर्थसाम- यकृत वस्तुवृत्तनिष्पादित यथा 'ग्रह सम्मार्टी'त्यादौ ग्रहादेः । तस्य सस्कार्यत्वेन बस्तुत. प्रा- धान्यम् । विवक्षाकृत प्रयोक्तृयदृच्छाप्रतिपादितं यदन्यस्योत्कर्षापकर्षाधानतया विवक्षित यथा रामस्य पाणिरसी'त्यादौ रामादे. । तत्र त्रिषु प्राधान्येषु विवक्षाकृतमेव ग्राधान्यं प्राधानम् । तत्कृतत्वात् काव्यार्थचमत्कारस्य । अत एवोक्तं तयोः समशीर्षिकाभावादिति । तयो- रिति शब्दार्थसामर्थ्यकृतयो विवक्षाकृतेन सहेत्यर्थात् । ननु पूर्व शाब्दस्यैव प्राधान्यस्य वैदक्षिकत्वमुक्तमन्यस्य तु वास्तवत्वम् । तत् कथमिह शाब्दवैवक्षिकयोरन्यत्वमुच्यते । अन्यत्वे वा प्राधान्यत्रयप्रतिपादनेऽर्थसामर्थ्यकृतविवक्षाकृतयोः को विशेष । शब्दकृताद्धि प्राधान्यादन्यदर्थसामर्थ्यकृतमुच्यते । तेन विवक्षाकृतस्य उक्तत्वात् । तत् किमर्थसामर्थ्यकृ- तमवाशेष्यत इति । नैष दोषः। पूर्व हि शाब्दिकैकगोचरस्य शाब्दिकविवक्षाकृतत्वाद् वैवक्षिक- त्वम् । अन्यस्य तु कविगोचरस्य वास्तवत्व तदेवार्थत्वम् । इह पुन सहृदयैकगोचरस्य कविविव- क्षावशाद्वैवक्षिकत्वमुच्यते । शाब्दिकैकविषयस्य शाब्दत्वमित्यपेक्षाभेदात् पूर्वस्तावन्न विरोधः। यदपि प्राधान्यत्रयप्रतिपादनेऽर्थसामर्थ्यविवक्षाकृतयोर्भेद उक्तस्तत्रायं भाव.-इह शाब्द वास्तवं चेति द्विविधमेव प्राधान्यम् । वास्तवत्रस्य च विवक्षानपेक्षत्वेन वस्तुसामर्थ्यप्रयोजक+++दर्थसा- “'तस्यापत्यम् ' 'अत इञ्' (४-१-९५) इतीप्रत्यय" इति पठनीय स्यात् .