पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

mratri Tanismsutarneir lonenmar annaprdentity enter was व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । २९ मर्यकृतत्वमुक्तम् । सत्यपि शब्दकृतादन्यत्व उत्कर्षापकर्षप्रतिपादनप्रयुक्तकविविवक्षाकृतत्वे वास्त- बमेव विवक्षाकृतं प्रतिपादितम् । तथा च 'ग्रह सम्माष्र्टी ति वैदिक विवक्षानपेक्षमर्थसामर्थ्यकृतस्यो- शाहरण दत्तमिति विषयविभागव्यवस्थितेन द्वितीयोऽपि विरोध इति समञ्जसं सर्वम् । एव कृत्त- द्धितवृत्तिविषये आतिदेशिक गुणप्रधानभाव विचार्य समा(स)गतत्वेनौपदेशिक प्रकृतमनुसन्धत्ते तदिदभत्रेति । सरूपाणामिति द्वन्द्वसमाससमानन्यायत्वादेकशेषवृत्तिरपि स्वीकृता । विशे. षणविशेष्यभावाभावेऽपीति समासोकनिकाया *प्रायग्रहणप्रयोजन प्रकाशयति । रूपंच कान्तिश्च विदग्धता चेति, अमृतेन विषेणेति चाभिहितानाभिहितकर्तृविभागेनोदाहरण- द्वयम् । रूपमित्यादौ हि गम्यमानभवनक्रियापेक्ष रूपादीना कर्तृत्वम् । एतेन तत्पुरुषस्य कदाह. रणप्रस्तावे क दीना (कारकाणाम् ) अनेके (षामि)ति यदुक्त, तत् समाहितम् । [५३] कश्च कश्चेति । अत्रैकशेषो न कृत. । कृतैकशेषमिति काविति प्रयोगे । अधुना प्रधानतरभावापत्ति दर्शयति यत्र पुनरिति । भवत इति रिपुस्त्रीणा सम्बन्धित्वेन, रिपुत्रीणामिति स्तनयुगस्य सन्बन्धित्वेनेति योजना । रिपुस्त्रीणामिति समासस्योदाहरणम् । न चात्र सम्बन्धमात्रादतिरिक्त प्रतीयते । तदर्थमेवेति उपमोत्प्रेक्षादयोऽप्यलकारा उपमोत्प्रेक्षादीनामुत्कर्षमपकर्ष वा प्रतिपा. दयितु विधीयन्ते । अन्यथा तद्विरचन निष्प्रयोजन स्यात् । तौ विधेयेति । उत्कर्षापकर्षों । (समास इति?) सासमास इति विवक्षा परामृश्यते । वैदर्भीति । यद्यपि वामनमते असमासा पाञ्चाली, मध्यमसमासा तु वैदर्भी, तथापि मतान्तरे विपर्यय स्थित इति तदभिप्रायेणेहास- मासा वैदी कथिता । कारिकामध्य एव सन्बन्धमात्रप्रतीतौ समासस्योदाहरणम् । 'ऊचाक्षि- तापेति । अत्र चतुर्थपादैकशेषः (देश) युक्तस्य पादत्रयस्य समासे सम्बन्धमात्र प्रतीयते, नो- त्कर्षापकर्षों । वाक्यातूभयमिति उभय सम्बन्धरूपमुत्कर्षापकर्षरूप च वस्त्वित्यर्थ । अनोदा- हरण [५४] मे यइरय इति समासे हि मदरय इति स्यात् । न चास्मादतिशय प्रतीत.। ननु पदादुत्तरपदयोर्यष्मदस्मदो ‘तेमयावेकवचनस्य' (८-९-२२) इति तेमयावादेशायुक्तौ । न चात्र पदात् परोऽस्मच्छब्द । एवशब्द पदमिति चेन । तत्प्रयोगे 'नववाहाहैवयुक्ते' (८-१-२४) इति निषेधाद् भिन्नवाक्यगतत्वाच्च । समानवाक्ये हि निघातयुष्मदस्मदादेशाः । (एतेनैव व्यतिरिक्त पदान्तर प्रत्युक्तम् ३ उत्कर्षमात्रमेव शब्दादेश 2) अत्र केचिदाहुः वाक्ये तावद्रसप्रतीतिर्नियूढा । तामनुपमर्दयन् काव्ये यद्यसाधुशब्दोऽपि स्थान तदा स्थूल: कश्चिद् दोष । काव्ये हि रसप्रतीति प्रधानम् । तदनिर्वाहे काव्यमेव न स्यात् । अपशब्दप्रयोगे सुलक्षणास्मरणमात्रम् । तदुक्त - "नीरसस्तु प्रबन्धो य. सोऽपशब्दो महान् कवे । स तेनाकविरेव स्यादन्येनास्मृतलक्षण. ॥" इति । अन्ये वाहुः । भवतु रसापेक्षयापशब्दस्य स्वल्पदोषत्व तथापि महाकवीनामपशब्द- प्रयागो महान् दोषः । तेनात्र 'तेमेशब्दौ निपातेविति तादृशो विभक्तिप्रतिरूपको मेशब्दो निपातो, यथा अहन्ता अहंयुरित्यादावहशब्दः । ततश्च नात्र कश्चिद्विशेष इति । किं सर्वात्मना करणस्य दुष्टत्वमेव । नेत्याह किन्त्विति । एतस्य समासस्य । अन्तरेणेति वीररौद्रादेः समासेन प्रकाश्यत्वात् । वृत्तं वसन्ततिलकादि । वृत्तयः कैशिक्याद्या. उपनागरिकाद्याश्च ।

  • प्रायग्रहण च 'सर्वेषामेव समासाना तावत् प्रायेण' इत्यादिसमासलक्षणवाक्यस्थ (४३.

पुमूले) बोध्यम् .