पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ConnurturToul imageantereastumsamvetymalaeivuman व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । काकु कालध्यायलक्षितो ध्वनिविकाररूपो वा । वाचिकाभिनयो वाग्विकाररूपोऽनुभावः । अर्धान्तावधिरिति श्लोकापेक्षया अर्धमन्तावधिः । न्यूनति पद्यापेक्षया न्यून रसाभिव्यक्ति. हेतुत्वमित्यर्थ । *यथा पूर्वोक्त इति 'अक्षितापे त्यादौ । समासोऽर्धान्तावधि कार्यों नाधिक इत्यनेन ब्यावर्त्यस्याधिकस्य तदुदाहरणम् । तस्येति पदार्थाना परस्परसम्बन्धश्चेन्नच्छिद्यते सदा तस्य समासस्य मध्ये विच्छेदो न कार्य इत्यर्थः । अव्यभिचारादिति विधेयत्व हि प्रा- धान्याविनाभावः । स्नेहमिति । अत्र पानादीनां प्रकाशनस्य च (विध्यनुवादलोपित्वैककर्तृकाणां प्राधान्यभावो नापस्मृतम् ?) अत्र च योयमिति यच्छब्देन दीपस्य पदार्थस्य परामर्शोपक्रमे त- तमस इति तच्छब्देन वाक्यार्थस्य परामर्शो दुष्ट इत्युपपादित प्राक् । शक्ति. सामर्थ्यम् आयु- धभेदश्च । तारकाः ज्योतीषि दैत्यविशेषश्च नारक । अधो निस्तेजस्त्वेन वाहनत्वेन च । शिखी- बहिर्मयूरश्च । चन्द्रस्य सुवर्णस्य सम्बन्धी कान्तावभासो लसन् देदीप्यमानो यस्मिन् । चन्द्रकाणां मेचकानामवभासो लसन स्फुरद्यस्य । अन्धकारे तमसि अन्धकारर्हरस्य ! गुहः कुमारः। अपर इवेति अत्रापरशब्दसामर्थ्याद् भूपे द्वितीयगुह्त्वप्रतीतौ वस्तुतस्तदसम्भवे तत्सम्भावना- यामुत्प्रेक्षा । अपरशब्दाभावे तु स्वस्वरूपस्थितस्यैव वास्तवस्य गुहस्य प्रतीतावियमुपमा स्यात् । एव मपर इव पाकशासनो' 'मौर्वी द्वितीयामि त्यादौ च मन्तव्यम् । अहर्पतेरिति । 'अइरादीनां पत्यादिषु' इति वचनाद्रेफः । अत्र धारणादीनां गुणभाव । भाधारस्य तु प्राधान्यम् । कती हि गुणक्रिया निष्पादयन् प्रधानक्रियामैदम्पर्येण निष्पादयति नतु तास्वैदम्पर्यम् । यत्र सर्वास्वैदम्पर्य तत्र भवत्येव सर्वासामाख्यातवाच्यत्वम् । यथा [५५] सौधादित्यादि । इतरप्राधान्यम् । आधा प्रधानभूता । अपरा अप्राधान्यवती । बहुलग्रहणमिति विशेषण विशेष्येण बहुलम् । (२-१-५७) इत्यत्र । कचिदित्यादि । 'क्वचित् प्रवृत्ति. क्वचिदप्रवृत्तिरिति बहुलग्रहणप्रयोजनस्य व्यवस्थितत्वात् । उत्सर्गति समासविधिः सामान्यरूपत्वादुत्सर्गः प्राधान्यादिविवक्षानिमित्तश्च तत्प्रतिषेधो विशेषरूपत्वादपवादः । अपवादस्यैवेति । 'अपवादविषयपरिहारेणोत्सर्गस्य प्रथ- सिरिति न्यायात् । कर्तुमशक्य इति । अव्यवस्थितविषयत्वात् । यथा 'उपसर्गस्य धञ्यम- नुष्ये बहुलम्' (६-३-१२२) इत्यत्र । परिशब्दे त्वय भवति । परिवादः परीवाद इति । वि- बाद इत्यत्र नैव भवति । तद्विषयः स्यादिति 'कृत्यल्युटो बहुलम्' (३-३-११३) इत्यादिगतल्य बहुलग्रहणस्य विध्यनुवादभावविषये सामर्थ्याभावात् समासाभाव इति भावः । तदभिप्रायमिति आचार्याभिप्रायम् । सापेक्षता(मि?)दौति । ऋद्धस्य राज्ञ पुरुष इत्यादौ । तत् समर्थग्रहणम् । पतद्यावृत्तीति एतच्छब्देन प्रधानेतरभावः परामृष्ट । तस्येहार्थत्वमपीति समर्थग्रहण प्र. धानेतरभावविषयनिवृत्त्यर्थमपीत्यर्थः । विधेयोद्देश्यति उद्देश्योऽत्रोवनिर्देशाईत्वादनुवाशः। यत् तेनेति । यच्छब्द. पूर्वार्थसम्बद्ध. । तेनापारणेन । अनभिधानं वेति अभिधानलक्षणा हि कृत्तद्धितसमासा इति । समर्थग्रहणं च वेति । चशब्दोऽत्रातिरिक्त., समुच्चयविकल्पयोर्विरो- धात् । एवञ्च- 'दृष्टि मृतवर्षिणी स्मितमधुप्रस्यन्दि वक्र न त- नार्दा हृदय न चन्दनरसस्पर्शानि चाङ्गानि वा'

  • भारतीयनाट्यशास्त्रे सप्तदश. काकुस्वरविधानाध्यायः काकध्यायः
  • 'यथानन्तरोक्ते' इति मुलकोशेषु पाठ.