पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CommuntedinTourimagadyarture feastumsanilivalentinue व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। एव । रजश्छलेनेति । छलेक्शब्दप्रयोगे सापह्नवेयमुत्प्रेक्षा । केवलच्छलशब्दप्रयोगेऽप्यपह्नुतिः । केवलेवशब्दप्रयोगे च सम्भावनप्रतीताबुत्प्रेक्षा । द्वयप्रयोगे तु शबला प्रतीति. ३ न चात्रापहनुत्यु- प्रेक्षयोः सङ्कर । उत्प्रेक्षा पढ्नुत्यविनाभाविनी । सोऽपह्नवः क्वचिद् गर्भीकृतो यथा 'नखक्षतानीच वनस्थलीनामि'त्यत्र, न पलाशानि किन्तु सम्भावयामि नखक्षतानीति प्रतीतेः । क्वचित्त शब्देन प्रतिपाद्यते यथा 'अभ्यारुरोहेवेति । एवञ्चास्या अपहनुत्यविनाभाविन्या अपड्नुतिबाधकत्व, न तया सह सङ्कर । भित्रवाक्यतायामेवेति । तत्र हि विभ्यनुवादभाव आजस्येन क्रमेण प्रतीयते । तदेव वेति विशेषणम् । तच्च विध्यनुवादभावविवक्षायां विधेयम् । अन्यत्रोते। उत्कर्षाषकर्षयो- विधेयत्वस्य चाभावे । कामचार इति समासासमासयो.। तदर्थमिति उत्कर्षादिविषये समासनि- षेधार्थम् । [५८] सापेक्षेति सापेक्षमसमर्थे भवतीत्येतावन्मात्रप्रतीतये । पित्रोः स्वतेवेति यथा पितरौ वन्दनीयाविति नित्यस(ब)न्धन्यायाद् निजावेव पितरौ प्रतीयेते, तद्वत् सापेक्षाणामनभि- पानाख्येन न्यायेन समासाभाव प्रत्येष्यते । स्वता आत्मीयत्वमिव । (सा) दोषप्रकारनिवृत्ति.। __ अधुना सर्वोत्कर्षशालिताप्रकटनार्थ स्वपरिश्रम पिण्डीकृत्य श्लोकेन दर्शयितुमाह काव्य- काञ्चनेति । काव्यमेव परीक्षणीयत्वात् सुवर्ण तत्र परीक्षास्थान निकषोपलमात्मान मन्यते, न पुनरुक्तक्रमेण परमार्थतस्सन् निकषोपल । अत एव कुन्तकेनेति ख्यातस्याप्युल्लुण्ठनवचनम् । श्लोक एष इति । य सर्वसारतया प्रदर्शितस्तत्रेयती दूषणवृष्टिर्मुक्ता । तत्रान्यस्य ग्रन्थस्य का गणेनेति सूचितम् । निदर्शितः स्थालीपुलाकन्यायेनोदाहृत । अत्र श्लोके वक्ष्यमाणैतदीयन्या- यानुसारेण कषेण नियमेन काञ्चनाक्षेपात् काञ्चनपद पौनरुक्त्यदोषदुष्टम् । निजकाव्यलक्ष्मणी- त्यत्र निजार्थस्य सरम्भास्पदत्वेन विवेयत्वात् समासकरण विधेयाविमर्शदूषित केचिदाचक्षते विचक्ष- णाः । तत्त्वनेनैव अन्यकृता 'स्वकृतिध्वयन्त्रित' इत्यादिना *दत्तोत्तरमेव । अस्य च विधेयाविम- शस्यानन्तेतरप्रसिद्धलक्ष्यपातित्वेनास्माभिर्नाटकमीमासाया साहित्यमीमासाया च तेषु तेषु स्थानेषु प्रपञ्च. प्रदर्शित इति ग्रन्थविस्तरभयादित एवोपरम्यते । __ एव विधेयाविमर्श प्रकारवैचित्र्येण लक्षयित्वा प्रक्रमभेद लक्षयितुमाह प्रक्रमभेदोऽपी- ति । प्रतिपत्तृप्रतीतेरिति रथस्थानीया प्रतिपत्तृप्रतीति । उत्खातो विषमोन्नत प्रदेश। पनमिति शब्दार्थव्यवहारम् । तद्विषयभावः प्रक्रमभेदविषयत्वम् । अनभिभाषणं तत्कर्तृ- कभाषणाभाव. । एवमनालपन ज्ञेयम् । अनलमसमर्था । विध्यनुवादभावप्रकारतापग- मादिति प्रकार. सादृश्यम् । उपकान्त नुवादस्थानीयम् । निर्वाहकं च विधेयप्रख्यम् । तत्र स्पटं विधेयानुवाद्यप्रकारमुदाहरति यथेति । "तदा जायन्ते गुणा यदा तैस्सहृदयैद्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥" "एवमेव जनस्तस्या ददाति कपोलोपमाया शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराक ॥" उत्कर्षापकर्षमात्रेति कमलानामुत्कर्षविवक्षा । चन्द्रस्य पुनरपकर्षविवक्षा । अत एवोदाहरणद्वयं दत्तम् । प्रक्रमाभेदप्रकार इति प्रकारोऽत्र विशेष. । पर्यायप्रक्रमेति। चन्द्रशब्दार्थस्य शशिशब्देन पर्यायान्तरनिर्देशो न युक्तो वक्ष्यमाणप्रक्रमभेदप्रसङ्गात् । [५९]न चै-

  • द्वितीयविमर्शारम्भे इति शेषः.