पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः। कटप्रयोगात् । स हि 'नियमनादित्यस्यानन्तर पठनीय लोष्टसञ्चार एकैकस्य भेदस्य भेदा- न्तरै. सह सयोजनप्रकाराख्यो गणनाविशेष । प्रकृतिप्रत्यययोरिति लधुशब्द प्रकृति । तस्या गुरुशब्देन भेद । गुरुशब्दे चेयसुन्नधिक प्रयुक्तो, यो लघुशब्दे न प्रयुक्त । तत्प्रत्ययस्य च प्रतिनिर्देशो न कृत इति प्रत्ययप्रक्रमभेदोऽपि । अभिनवपाठे तु तत्प्रत्ययरहितस्यैव लघु- शब्दस्य प्रतिनिर्देश कृत । क्रसेति य उद्देशकम प्रकान्त सोऽनुदेशे वैपरीत्याद न कृत इति प्रतीतेरैक्यस्य विगमाद् दुष्टत्वम् । तव कुलुमशरत्वमिति । इद क्रमप्रक्रमभेदोदाहरण न युक्त चूलिकाक्रमस्यैवात्रोचितत्वम् । तथा छुद्देश । स्मर प्रति साम्मुख्येनाभिधान विहाय नेन्दु प्रासनिक प्रत्ययथार्थज्ञानमुचितमिति स्मरस्य तावत् प्रथमनिर्देशो न्याय्य । (*अनिर्देशे) विद- विषय त्यक्त्वा न प्रासनिकेन वाक्यार्थपरिसमाप्ति शोभते इति पार्यवसानिकेन स्मरेणैव सम्मु- खीक्रियमाणेन वाक्यार्थ परिसमापनीय इति पाठक्रमापेक्षया चूलिकाक्रम एव सहृदयहृदयरञ्जक इति कुशाग्रीयधिषणैर्निपुण निरूपणीयमेतत् । तथा च 'युष्मदस्मदो पदस्य पदात् षष्ठीचतुर्थी- द्वितीयास्थयोर्वान्नावौ' (८-१-२०) इति चूलिकाक्रमेण व्यवहारो दृश्यते । क्रमप्रक्रमभेदस्य पुनरुदाहरण वस्तुप्रक्रमभेदविचारप्रस्तावे निरूपयिष्यते। प्रधानभूतस्येति अर्थप्रतिपादनाय शब्दप्रयागाच्छब्दस्यापायमानत्वाद् उपायाना च नियमाभावात् । तदुक्तम्--- ___“उपादायापि ये हेयास्तानुपायान् प्रचक्षते । उपायाना च नियमो नावश्यमवकल्पते ॥” इति । प्रक्रमभेद इति । प्रक्रमभेदविषयस्य विभ्यनुवादभावप्रकारत्वात् प्रक्रमभेदोऽयुपचाराद्वि- भ्यनुवादप्रकार इत्यर्थ । अनेनैव न्यायेन शाब्दश्वार्थश्चेति प्रक्रमभेदस्य भेदद्वय शाब्दार्थविषय- त्वाद् बोद्धव्यम् । शब्दभेदमिति । एकशब्दा (भेदत्वा )भिधेयत्वेनार्थस्य प्रत्यभिज्ञायमानत्वोप- पत्तये । शब्दभेदे तस्यैवार्थस्यान्यस्येव प्रतीते. नाजसेन प्रकारेण विध्यनुवादभावविषयत्वम् । काव्यगतत्वेन हि चिन्ता प्रस्तुता । न च काव्ये शास्त्रादिवदर्थप्रतीत्यर्थ शब्दमात्र प्रयुज्यते, स- हितयो शब्दार्थयोस्तत्र प्रयोगात् । साहित्य तुल्यकक्ष्यत्वेनान्यूनानतिरिक्तत्वम् । अस्त्वेवमिति सामान्येन प्रक्रमभेदाभ्युपगमो विशेषे तु पर्यनुयोग इति भावः । प्रक्रम(भेद ?)नियम प्रती- ति हृदयङ्गम पाठ । यद्भेदाभेदाभ्यामिति हि यच्छब्देन प्रक्रम परामृश्यते । प्रक्रमभेदनि- यम प्रतीति तु पाठे यद्भेदाभेदाभ्यानिति प्रक्रमस्यैवोद्धृतस्य यथाकथञ्चित् परामर्शो व्याख्येयः। [६४] शुचि भूषयतीति । अत्र भूषयतीति शाब्द भूषण प्रक्रान्तम् अलक्रियेसादावार्थेन रू- पेण प्रतिनिर्दिष्टम् । अत्र च पर्यायप्रक्रमभेद स्थितोऽपि साम्प्रत न चिन्तित शब्दार्थप्रक्रमभेद- चिन्तनप्रस्तावात् । अत्र विभागस्यैवेति । (अत्र वेत्यर्थादुपमेयम् !) तदभिसम्बन्ध श- ब्दाभिसम्बन्ध । विपर्ययादिति साक्षाच्छन्दसम्बन्धाभावात् । उदाहरणद्वये 'शुचि भूषय- ती'ति 'चारुता वपुरि'ति च । यादृशमिति स्थितपाठाभिप्रायेणानौचित्यं दत्तपाठाशयेन त्वौ- चित्यमित्यर्थः । तच्छब्देनान्ये परामृश्यन्ते । सादृश्यमेवेति । (तिदा यच्छब्दस्य नपुसकता स्यात् । तस्मात् सुरारिवेत्यत्र परामृश्यत इत्य)विवेकाक्षमप्रज्ञत्वात् । तदपहृतेति भनिभणिति वैचित्र्य परामृष्टम् । उत्कटेन भणितिवैचित्र्येण वर्णनीयमाच्छादितमित्यर्थः । तदुक्त वक्रोक्तिकृता लौकिकालकारानुपमानीकृत्य-

  • 'अनुदेशे' इति पठितु युक्तम् ६ पदस्य पदादिति चानुवृत्तं पदद्वय प्रासाङ्गकम् .

+ कुण्डलनान्तर्गतं लेखकप्रमादायातं भाति.