पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ConnurudLTourimagadyarturfastamanartyrepalandinavad व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । विमुख इति । केचित् पुनरुक्तवस्तुषु विरस पुनरुक्तानि वस्तूनि (न) करोतीति व्याख्यानेन व्य- तिरेकनिर्वाहाद्यथास्थितपाठ समर्थयाश्चक्रिरे । अर्थदोषाणामिति प्रक्रमातिक्रमरूपाणामित्यर्थः । तपेन वर्षा इति- “तपेन वर्षा शरदा हिमागमो वसन्तलक्ष्म्या शिशिर. समेत्य च । प्रसूनकृत्य ददतः सदर्तव. पुऽस्य वास्तव्यकुडुम्बिता दधु ॥” अत्र हि स्त्रीपुरुषयुगलत्रयरूपतया ऋतूना वर्णने प्रस्तुते स्त्रीरूपाणामृतूना तृतीयासम्बन्धादनावा- न्ये विवक्षिते यत् तपेन वर्षा इत्यत्र विपर्यय कृतः, कृते वा तथा निर्देशे शरदा हिमागम इ- त्यादौ यदन्यथाकरण स प्रक्रमभेद एव । यदि पर स्त्रीपुसयोरत्र येन क्रमेण प्रक्रम. तस्यान्यथा निर्वाहात् क्रमप्रक्रमभेदमिम विद्म । तेन पूर्व क्रमप्रक्रमभेदस्येदमेवोदाहरण देयम् । तेन वर 'घ- नश्रियोष्ण शरदा हिमागम' इति पाट कर्तव्य.। कर्तृप्रक्रमभेदोऽपीति । यत्र युष्मदस्मद- थंगत कर्तृत्व शेषेऽत्र चेतनेऽचेतने वा वा बुद्धिपूर्वकमेवारोप्यते, तत्र कर्तुरन्यस्यारोपश्चारु- वाय व्यत्यासो गुण एवेत्यर्थ 1 [६६] तयोरिति । (यत्र ?) कर्तृव्यत्यासप्रक्रमभेदयो । न प्र- करणावलित इति । युष्मदस्मदर्थस्य हि क्वचित् कर्तृत्व प्रकरणाद्यवसित न शब्देनाभिधातु प्रक्रान्तमिति नाय प्रक्रमभेददोषस्य विषय । अन्यत्रारोप्यैवमुक्तमिति शेषत्वेन विवक्षिते रामभद्रे । एवमुत्तरत्र भार्गवे वटौ चान्यत्व योजनीयम् । ननु युष्मदस्मदर्थस्य चेतनत्वात् तद- पेक्षयाचेतनस्यैवान्यत्वमुचितमिति कथ चेतनस्यैवान्यत्वमित्याह द्विविधो हीति । अय भाव' ! न युष्मदस्मदर्थगतचेतनत्वापेक्षया वस्त्वन्तरस्यान्यत्वम् , अपि तु युष्मदस्मदर्थत्वापेक्षयैव । यु- ष्मदस्मइयौं च क्रमात् सम्बोध्यमानवस्तुनिष्ठः परभावोऽस्मिताख्या प्रत्यक्ता च । ततश्च तदपे- क्षया शेषस्यान्यत्वम् । तस्य च चेतनत्वाचेतनत्वाद् द्वैविध्यमिति न विरोध कश्चित् । परशुना चन्द्रहास इति क्रमेण द्वयोरपि युष्मदस्मदर्थयोरचेतनावपयकर्तृतान्यत्यास उदाहरणम् । भोल- वेश्वर इति । अत्र राम स्वय याचत इति अस्मदर्थकर्तृत्वस्य चेतनविषयव्यत्यासस्यान्यत् स्थितमायुदाहरणीय न चिन्तित , पूर्वमुदाहरणान्तरे चिन्तितत्वात् , चिन्तान्तरप्रस्तावाच । __तदेवमियता प्रबन्धेन प्रक्रमभेद विचार्य क्रमप्राप्त क्रमभेद विचारयितुमाह क्रमभेदो यथेति । ननु यदि स्मृतिपरामर्शकस्य तच्छन्दस्यानुभूत एवार्थो विषय इत्युच्यते , येऽत्यन्तप- रोक्षा रामादयस्तेषा कविना काव्ये तच्छब्देन कथ परामर्श क्रियते तेषामतीन्द्रियत्वादित्याह [६७] अत्र च प्रतीतिमात्रमिति । अयमत्राभिप्राय । येन विना यनोपपद्यते तस्य तदपेक्षा न्याय्या । स्मृतिश्च प्रतीतिमात्रमन्तरेणानुपपद्यमाना तदपेक्षिणी स्यात् , नैन्द्रियिकप्रतीत्यपेक्षिणी ऐन्द्रियिकप्रतीति विनापि शब्दादिभ्यः प्रतीतौ तस्याः सम्भवदर्शनात् । रामादीना च यदि नैन्द्रि- यिकी प्रतीतिस्तदा शब्दात् प्रसिद्धी प्रतीतिरस्तु । तन्निबन्धनश्च स्मृतिपरामर्शकेन तच्छब्देन परामर्श इति न कश्चिद्विरोध. । नन्विति । अयमत्रार्थः । पदार्थविमर्शपुरस्सरो वाक्यार्थविमर्श इति न पदार्थविमर्शवेलाया भवत्वियमाशङ्का । वाक्यार्थविमर्शसमये त्वखण्डप्रतीतौ पूर्वापरभाव- नियमावभासनाभावान्नास्य दोषस्यावकाशः । उद्देश्यत्वाच्च वाक्यार्थप्रतीतेरन्तरगत्वमिति तदाश्र- येणैव व्यवस्थोपपत्तौ न क्रमदोषचिन्ता काचिदिति । प्रतिरूपः प्रतिबिम्बरूपः तत्सञ्चारो बक्रभिप्रायसङ्क्रमणम् । शब्दव्यवहारस्येति । शब्दव्यवहारमुखेन श्रोतृगृहीतो वाक्यार्थवि- मर्शः स्वीकृतः । वक्तुरिति यदि श्रोतृविमर्शपर्यवसायी शब्दव्यवहारो वक्तृविमर्शप्रतिच्छन्द्र- करूपो न स्यात् , तदा शब्दैर्वक्तृविमर्शस्यासम्बन्धित्वादनुमान न स्यादित्यर्थः । तत्र चासा-