पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

commewinthe ansi nwage threewan stampeareAalathy mee nuine व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । धिनामिति । अत्र 'सम्बन्धिनिबन्ध' इति कारिकाया य सम्बन्धी युक्त ,स निर्दिष्ट । तथा चात्राशय सम्बन्धित्वेन निर्दिया । तत्परामर्शयोग्यतेति तच्छब्देन परामृश्य शशाको नि- दिष्ट । ला हि गुणीभूतस्येति । हरमन्यपदार्थ प्रति निशापतिर्गुणीभूत. । तस्यापि निशा गुणीभूता। सा च भुवनेति । अत्र न नगेन्द्रतनयाया सम्बन्धी निर्दिष्ट । अपि तु सा चेत्य- नेन *स्वरूपेण निर्दिष्टम् । विहस्तो न क्वचिच्छक्त । समारगतस्थति परामृझ्यस्येति स- म्बन्धः । तत्र हि परामृश्यस्य समासे गुणीभावात् सम्बन्धिनश्वानिर्देशात् परामर्शो न न्याय्य । न सर्वजनसंवेदनीय इति । अस्यार्थ -- “यथास्मै रोचते विश्व तथद परिवर्तत" इति न्यायनात्रातिप्रौडतया अन्थकारो निजायत्ता पदार्थव्यवस्था कर्तुमारब्ध., येन 'तदशुनिचि- त' इति तत्तमसाम्' इति च शशाङ्कस्य निशायाश्च तच्छब्देन परामर्शमघटमानमपि समर्थ- यते, 'जक्षुर्दिस धृतविकासिबिसप्रसूना' इत्यत्र च विसप्रसूनशब्दस्य सज्ञापदस्थापि विसशब्दा- श्रयेण सूक्ष्मेक्षिकया पौनरुत्य दोषमुद्भावयति । न चैतत् समर्थन हृदयहारि, यस्माच्छशाङ्कमौ- लिरिति च निशापतिमौलिारेति च सज्ञाशब्दावेतौ । सज्ञाशब्दाना च विद्यमानस्या यथानुगमस्य न प्रयोजकत्व रूढे प्राधान्यात् । ततश्चात्र न शशाङ्कार्थो न निशार्थ कश्चित् । किन्तूपायमात्रे- गैतावर्थावाश्रित्य सज्ञिविशेष एवात्र विवक्षित । एवञ्च सश्यन्तर्गतयो शशाङ्कनिशयोस्तच्छन्द- परामर्शेन सहृदयहृदयान्यावर्जयतीति हरुसर्मथनमेतत् । किं च शशाङ्कमौलिरित्यत्र वर शशाङ्क- स्य भवतु सर्वनाम्ना परामर्श तस्य वक्राकृतस्तत्र सन्निहितत्वात् , निशापतिमौलिरित्यत्र तु नि- शाया परामर्श पापात् पापीयान् निशाएतेरेवोतक्रमेण तत्र सन्निहितत्वात् । निशाया उपलक्ष- णमात्रत्वेनेोपयोगिन्यास्तत्र सम्भवाभावात् । यत्र च तस्या एव न सम्भवस्तत्र का वार्ता तम- साम् । तदयम् 'अन्धो मणिमविन्दत् । तमनगुलिरावयद्' इति न्याय (न्याय्ये आयत:) आयात | अपि च यत्र प्रसारितानुगमेन शब्देन सज्ञिनः प्रत्यायन क्रियते, पर तत्रानुगमोत्क- र्षाद् भवति सर्वनामपरामर्शः । यथा- “उत्सवाय जगत स जायता रोहिणीरमणखण्डमण्डन । तत्प्रभाभिरिव पूरित वपु ति यस्य सितभस्मगुण्ठितम् ॥" इति । अत्र हि पदव्यापिनी संज्ञान्वर्थ (त्व)मेवोत्कर्षयति । तेनात्र परामर्शी नाप्रतीतिकरः । प्र- कृते तु ताक्ष्यपि गतिर्नास्ति । आस्ता वा प्रकृतम् । अत्रापि हि रोहिणारमणेत्यादौ यदि सूक्ष्मे- क्षिका क्रियते तदा सज्ञाप्राधान्यात् तदशस्य सर्वनामपरामर्शो न दुष्टता भजते । प्रकृते तुपा पात् पापीयान् परामर्श । कृत चात्र समर्थन ग्रन्थकृता । तदेतदस्य विश्वमगणनीय मन्यमानस्य स्वात्सनः सर्वोत्कर्षशालिताख्यापनमिति । प्रन्थकर्तुः पुनरयमाशयः- इह तु द्विविधा सज्ञाशब्दाः रूढा चोगरूढयश्च । तत्र रूढा- नामर्थानुगनाभावात् तदनुसरण न कर्त्तव्यम् । ये तु योगरूढयस्तेषां यदि चोग उत्कटतां भजते तदाश्रयो व्यवहारो न दुष्यति । अत एव निमित्तबलेन प्रवृत्तस्य शब्दस्य निमित्तान्तर्भावे प्रयो- गः सौगतैनिषिद्ध एव । यदाहु.- ___ * ‘स्वरूपम्' इति वर पाठः. 'तत्तमसाम्' इत्यस्य स्थाने 'तत्तु समासमेति च समिति' इति लिखितमादर्श दृश्यते. न्याय आपतित' इति वा 'न्याय आयात इति वा पाठ्यम् - 'पाव्यापिनी' इति स्यात् . | नादुष्टताम्' इति पाठो युक्तः.