पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SIMILTIRLINEERINITanana M ITHAINMainm व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । "नैमित्तिकाः श्रुतेरथमर्थ वापरमार्थिकम् । शब्दानामनुरुन्धानो न बाधस्तेन वर्णितः ॥” (2) इति ! एव स्थिते योगाश्रिते व्यवहारे यदि सज्ञावयवभूतार्थस्याव्यभिचारी कश्चित् प्रतिपिपादयि- षित स्यात् तदा तदभिसम्बन्धाय तस्यावयवस्य सर्वनामपरामर्शो न दुष्ट. ! यदुक्तम्---- 'सर्व- नाम्नानुसान्धवृत्तिच्छन्नस्य' (का सू. ५-१-११)इति । मौलिरित्यत्र शशाङ्काव्यभिचारिणो रश्मयः सम्बन्धित्वेन प्रतिपादिता. ! निशापतिमौलिरित्यत्र निशाव्यभिचारीणि तमासि । तेषा चावास्त- वत्वमपि न तथा दुष्टम् उत्प्रेक्षागोचरत्वेन प्रतिपादितत्वात् । केवल पूर्वत्र सज्ञिसम्बन्धी परत्र तु सम्बन्धिसम्बन्धी परामृष्ट इति विशेषः । तदेव यौगिकानां सज्ञाशब्दानी योगनिमित्तो व्यव- हार कचित् क्वचित् सुव्यवस्थित एव । यत्तु 'कुर्या हरस्यापि पिनाकपाणे रित्यत्र पिनाकपाणि- पदस्य सज्ञाशब्दस्य सतोऽर्थानुगमो निवारयिष्यते येन सज्ञावगमार्थ हरशब्द प्रयुक्त , तन्नार्थीनुगमाभावप्रतिपादनपरेण, किन्त्वनुगम्यमानस्यार्थस्य सरम्भास्पदत्वेन विवक्षितत्व पृथक सज्ञापदप्रयोगमन्तरेण (न) निर्वहति सज्ञार्थस्यार्थानुगमस्य च युगपत् प्राधान्याभावादिति द्वयप्र- योग एवैवविधेषु स्थानेषु शस्यत इत्यभिप्रायेण ! प्रकृते वस्तुस्वरूपमात्रप्रतिपादने सज्ञाशब्दत्वेऽ. प्यथीनुगमानुसरणमव्याहतमिति । इतरथेति उभयविधयोग्यताभावे परामृश्यप्रतीतेरभावादि- त्यर्थ । अत्र त्विति । 'जक्षुर्बिसमित्यत्र । सम्बन्धिनः प्रसूनस्य निबन्धने उपादाने । आर्थ इति । क्रियाकारकभावस्थाख्यातपदवाच्यत्वेन शाब्देन क्रमेण प्रस्तावेऽत्र विशेषणद्वारेण समासेन ( तोऽर्थ. १) प्रतीतेरार्थत्वम् । तच्चानेकप्रकारमिति तच्छन्देन पौनरुक्त्य पराम- टम् । सक्षेपेण पञ्चप्रकार पौनरुत्य निर्दिश्यते । अश्वीयेति । अत्र 'केशाश्वाभ्या यञ्छौ' (४. २. ४८) इति समूहेऽर्थे छप्रत्ययः । एव छपत्यय सहतिशब्दश्च भिसः प्रकृतित्वेन निर्दिष्टौ पुन- रक्तौ । अश्वैरित्येव हि वाच्यम् । बिलेति 'बिसकिसलयच्छेदपाथेया' इति 'त्वगुत्तरासङ्गाम् इति च वाच्यम् । [१] बहुव्रीहीति मत्वर्थे बहुव्रीहिविधानम् । कर्मधारयमत्वर्थीया- भ्याम् इति । कर्मधारयमत्वर्थीयौ समुच्चयेनावस्थितौ वृत्तिलाघवाद् बहुव्रीहिणा बाध्येते इत्यर्थ । "भूमनिन्दाप्रशसासु नित्ययोगेऽतिशायने । ससर्गेऽस्तिविवक्षाया भवन्ति मतुबादयः ॥" इति बहवो भूमादयोऽर्था अत्यर्थमनुगच्छन्तो मत्वर्थीय(ता?)विषयत्वेनोक्ताः । ते क्रिमिति न बहुव्रीहिवाच्यत्वेनोक्ता इत्याह मतोरिति । मतुब्ब्रहण मत्वर्थीयानामुपलक्षणम् । भूमादयो अर्था न केवलेभ्यो मतुबादिभ्य प्रतीयन्ते, किन्तु प्रकरणादिसहायेभ्यस्तेभ्य इति (न) मतुबादिविचा- रेणोदाहियन्ते, नान्तरीयकतया तेषा गतत्वात् । जाम्बवेति तदीयेति चन्येति च तद्धित- प्रत्ययस्थ पौनरुक्त्यम् । जम्बूपल्लवानीति, तन्मातङ्गेति, वनकरिणामिति च षष्ठीसमासेनैव तद्धित- कर्मधारयलक्षणवृत्तिद्वयार्थप्रतीते । वात्रघ्नेति वृत्रन्न इन्द्रस्यापत्यमत्र विवक्षित, नेदमर्थ इति नात्र तद्धितस्य पौनरुक्त्यम् । समूहार्थाया इति । 'ग्रामजनबन्धुसहायेभ्य' इति (४-३-७.) समूहे तत्प्रत्ययः । अत्र जनशब्देनैव समूहार्थप्रतीतेस्तत्प्रत्यय(रूपाया ?)प्रकृतेर्बहुवचनस्य प्र- त्ययस्य च पौनरुक्त्यम् । पूर्ववदिति दलत्कन्दलेति लम्बाम्बुदमिति फुलाम्बुजा इति च बहुजी- बहिणैव भजत्यर्थादीनो प्रतीतेः पुनरुक्तत्वम् । विशेष्यमात्रेति विशेष्यस्याविशिष्टविशेष्यरूपतया,