पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । बजान् परित इति । परितश्शब्दयोगे 'अभित. परित समयानिकषा' इति द्वितीया । अत्र दधुरिवेतीवशब्द पुनरुक्त एव, वस्वन्तरभूताना रज.कणाना वस्त्वन्तरभूतमुर्मुरचूर्णत्वधारणेन सुष्टुसादृश्यप्रतीतेः । एवं- "तत् पातु व श्रीपतिनाभिपद्म स्वाध्यायशाला कमलासनस्य । दीधैर्निनादैर्दधतेऽनुकार सामध्वनीनामिव यत्र भृङ्गा" ॥ इत्यादावनुकारशब्दप्रयोगे इवादिशब्दप्रयोगस्य पौनरुक्त्यमवसेयम् । प्रतिवस्त्वलङ्कारादिति "पूर्णः शशाङ्काभ्युदयमाकाङ्क्षति महार्णव' इति प्रतिवस्तूपमया सादृश्यप्रतीतौ दृष्टान्तशब्दोक्ति- र्दुष्टा । नच दृष्टान्तालङ्कारत्व प्रतिपादयितु दृष्टान्तशब्द , दृष्टान्तशब्दाद् दृष्टान्तालङ्कारत्वाप्रतीते । न हि षष्ठयादिपरिहारेण सम्बन्धिशब्दात् सम्बन्धप्रतीति रसशब्दाद्वा रसप्रतीति । अदूरविप्रक- र्षेण त्वभिधान वस्तुसस्पर्शि भवतीति । ननु स्वकण्ठेनाभिधानमपहाय किमिति सादृश्यप्रतीतिरा- श्रीयत इत्याह वाच्यो हार्थ इति । पूर्ववदिति । पूर्व यथा 'आलान'मित्यादौ रूपकमुखेनोपमा- नोपमेयभाव कथितस्तद्वदिह दीपकमुखेनेत्यर्थः । अत्र च दुयोः प्रभाधेन्वो प्राकरणिकत्वात् तु- ल्ययोगितामद्यतना मन्यन्ते । द्वयोरपि प्राकरणिकत्वे महाप्रकरणापेक्षया धेनो प्रकृष्ट प्राकरणि- कत्व प्रभायास्त्वप्रकृष्टमित्येतदपेक्षया चिरन्तनैदीपकमेतत् स्थापितम् । तदपेक्षयात्रानेन तद्वाचो- युक्ति कृता । एवमलङ्कारान्तरेष्वपि समासोक्त्यप्रस्तुतप्रशसादिषु । तत्राप्युपमानोपमेयभा- व स्वकण्ठेन नोपनिबन्धनीय । तथा- "द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपिका । बहुविधार्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणि " ॥ इत्यत्राप्रस्तुतप्रशसया भवदर्थस्य सदृशत्वेन प्रतीते पुनर्वचन न कर्त्तव्यमिति वक्ष्यते । अस्मा- भिश्चैतत्प्रपञ्चो बृहत्या करिष्यते। इतिनैवेति इतिशब्दो हेलर्थ. प्रयुज्यमान स्वभावत. पूर्व- वाक्यार्थस्योच्यमानत्व बोध्यमानत्व वा गर्भीकृत्य प्रवर्तते । वरमिति उक्तदोषद्वयनिवारणमा- त्रमेतत् । न तु सर्वथा निरवद्यमिद , यतश्शब्दातश्शब्दयोर्वेयात् । [७४] अनिबन्धन- स्येति नहि पूरणीयपूरकत्वेन दुष्टत्वम् । अविशेषण इति विशेषणदानार्थमव्यभिचारिणोऽपि प्रयोग शस्यत इत्यर्थ. तथा चाह वामन - 'विशेषणस्य च' (२ अधि १८ सू.) इति ! व्य- लोक्यतेति विलोकनक्रियैव लोकितार लोकमाक्षिपतीति लोकशब्दस्य पौनरुक्त्यम् । द्वयऽपी. ति प्रस्थानवशानीतिवशाचा श्रीयन्ते । गामिति गोशब्दस्य वाक्पर्यायस्य वचनक्रियायामव्य- भिचारात् प्रयोगो न कार्यः। दृष्ट इति दर्शनक्रियाया दृगेव करणत्वेनाक्षिप्तति दृक्शब्द पुनरु- क । कारकान्तरेष्वपीति यथा 'स्थाने तिष्ठती त्यत्राधिकरणस्य पौनरुक्त्यम् । विविक्ते स्था- ने तिष्ठतीति तु विशेषणार्थ प्रयोगो न दुष्ट ! एकैवेति एकैवोपमादि । शाब्दत्वं श्रौतत्वं यशेवादिशब्दप्रयोगात् । आर्थत्वं सदृशादिशब्दप्रयोगात् । अतिस्फुटामिति स्थूलदृष्टयैव दृश्यामित्यर्थ । उमावृषाङ्काविति । अत्र शरजन्मना यथेत्यादिना प्रतीतोऽप्युपमानोपमेय- भावस्तत्सदृशेनेत्यादिना पुनरुक्त. । कवेस्तु नन्दननिमित्त पूर्व उपमानोपमेयभावः । प्रतीयमा- नप्रभावादिनिमित्तस्त्वपरः । तथा चाय 'दिलीप इति राजेन्दुरिन्दु. क्षीरनिधाविव' इत्येवविधमु- पमानोपमेयभावमातनोति । ग्रन्थकारस्तु विशिष्टोपमाननिर्देशान्नान्तरीयकतया प्रभावादिप्रती- श्रयन्ते' इति च पाठान्तरम् ।