पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CATIrradhy intui imegever fantungamanenthy tagsiwniurnaings, व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । तिर्भवतीति न द्विरुपादानं कार्यमिति मन्यते । यस्येति यस्य पर्वतादेर्यद्रूपतायाः प्रियतमादि- रूपत्वस्याभिव्यकिः सामर्थ्यालिङ्गविशेषश्लिष्टपदोपनिबन्धनरूपाद् भवति, तस्य पर्वतादेः तदर्थ- प्रियतमादिरूपत्वप्रतीत्यर्थमुपमा रूपक वा यनिबध्यते तत् पुनरुक्तमित्यर्थः । [७५] उरवो महान्तः पयोधरा मेघा. उरू च पयोधरौ स्तनौ च । समयात् सङ्गतेत्यर्थः । आर्द्रनखक्ष- तमिवेति भिन्नक्रम इवशब्दः । यापितो गमितः निर्वाहित इत्यर्थः । *उपमानादेवेति आकारसादृश्येन पलाश प्राते दीयमानाद् आर्द्रनखक्षतमित्यस्मात् । तद्विशेषणोपादानमिति रंमणदत्तमित्यानखक्षतविशेषणोपादान मदयापितलजयेति प्रमदाविशेषणोपादानं चेत्यर्थः । यत इति नखक्षतमिवेत्युपमोपकृतात् सुरभिवनमालादीना पुंस्त्वस्त्रीत्वानर्देशादित्यर्थः । स्त्रीपुंस- स्वानुमितिरिति प्रथमविमर्शोक्तप्रकारेण व्यक्तेरनुमितिरूपत्वेनोपंपादेतत्वात् । ऐन्द्रं धनुः रिति अत्यन्तेति आभोगीति चोदाहरणत्रय वैधर्म्यक्रमेणोक्तम् । उपपन्नक्रमस्या(स्य?)स- द्भावात् । नायकत्वप्रतिनायकत्वे इाते । अनुमीयते इति शेषः । एवम् अंङ्गनेव माणि- स्तम्भाविति अनुमीयत इति शेष । [६] भोगी वासुाकेः स एव नेत्रमाकर्षणरज्जुस्तस्य आ समन्ताद् यत्परिवर्तनरूपो विशेषेण भ्रमो भ्रमणं, तेन मन्दरस्य मूर्तिः नितम्बे मध्यभागे वलन परिवर्तन तेनाकुला जाता । तथा आभोगि विस्तारवत् यनेत्रं नयन तस्य परिवर्तन कटाक्षीकर. ण स एव विभ्रमो विलासः । मूर्त्या समारोपितनायिकाव्यवहारया ! उत्कलिकास्तरङ्गा रुहिरुहि- काश्च हृदय मध्यदेशश्चित्तञ्च । आरोहार्थ इति आरो(मिति पूर्वश्लोकभागगत । हृदयार्थ- चेति । हृदयमम्बुनिधेरित्यत्र स्थितः । तयोरिति आरोहो जीवव्यापाराविशेषः । हृदय जविका- यैकदेशविशेषः । अलङ्कारान्तरत्वमिति सा दृश्यालक्षणा वक्रोकिरित्यादिप्रकारेण । लाक्षणिकह- दयादिशब्दप्रयोगे स्वशब्दं विनाप्यर्थान्तर प्रतीयत इत्याइ यंदति । यत्रोपमेयेऽम्युनिधित. भृतौ । यदर्थंकाश्रयो नायकादिरूपोपमानविषयो धर्मो हृदयादिराराोपतो लक्षणया भवेत्, तथो यकादेरुपमानस्यान्बुनिध्यादेश्वोपमेयस्योपमानोपमेयभाव शाब्दो नेष्यते । गम्यमानस्त्विष्ट एवैत्यर्थः । अत्रैव अपरागेत्यादिना शाब्दत्वे दोषोदाहरणमाह । मूलान्यमात्यादिप्रकृतिवर्ग: वृक्षावबन्धनानि च उन्मूलयितुं सुकर इति योजना । तद्धीति उपमानोपमेयत्वम् । रूपक यथेति । "तस्योपमा रूपक वे'त्यनुसन्धत्ते । अनुरागो लौहित्यमपि । अपिशब्दः सुखादिपद- निकटे योजनीयः । वसुशब्दस्तेजोधनयो । अत्र निष्कासनमुत्कटत्वेन गणिकाधर्मो रूपकस्य साधकः प्रमाणम् । कार्यतश्चेति कार्यमत्र निष्कासनम् । तद्विशेषस्य स्त्रीत्वविशेषस्य मणिका. रूपस्येति । उभयार्थेति द्यर्थपदप्रयोगः 'पाण्डुपयोधरणे त्यादौ । लिङ्गविशेषः 'शरद रखे.' इत्यादौ । गुणवृत्ति पदम् 'आरोढु' 'हृदयमित्यादौ । उपमानविशेषो यथा 'आईनखक्ष- ताममित्यादौ । आक्रोशो गालिदानम् । पर्यायोक्तीति येन राहुनीस्तनयोः कार्कश्यलक्ष्मी

  • क.सज्ञमूलप्रन्थानुरोधी “उपमेयादेव' इति पाठस्त्वर्थासगतेरशुद्धः । ख. ग. संज्ञयोश्च मूल-

कोशयोर्व्याख्यानवदेव पाठो दृश्यते. + अस्मात् प्रतीकधरणाच्छेषपूरणाच 'शारदो नायिकात्वमिन्दो रवेश्च नायकत्वप्रतिनायकत्वे' इत्येव मूलपाठो व्याख्यातृदृष्ट इति गम्यते । न तु 'शरदो नायिकात्वस्येन्दो रवेश्च नायकप्रतिना-- यकत्वधारभिव्यक्तिः' इति । गालिनिन्दा.