पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । सङ्गः । स्थिते विशेषणत्वे तस्य न विशेष्यविभक्तेर्हानि काचित् । यत् पुनरिहोपमानशब्दस्य विशेष्यवाचित्वमुक्तं तद् धर्मिताभिप्रायेण । धर्मी ह्युपमानम् । न च स्वतन्त्रत्वात् विशेज्यार्थः । अतश्चैवायं 'स्त्रीव गच्छति षण्डोऽयम्' इत्युपमेयलिङ्ग न भजते । धर्मवाचि तु विशेषण विशे- यलिंगमेव । तदुक्तम् - 'गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति' इति । तदेवमुपमान- मुपमेयविभक्ति न (न) भजते धमित्वं च न जहातीति । खलता दुर्जनत्वम् । खलता आकाश- वल्ली । अत्र प्रयुक्त इति । तरुरिवेत्यत्र । वाक्यभेदप्रसङ्गादिति 'सम्भवत्येकवाक्यत्वे वा- क्यभेदश्च नेष्यत' इति वाक्यभेदस्य प्रतिपत्तिगौरववत्त्वाद्धेयत्वम् । अथ समासोक्तीति । अनवरतजलेल्यादेविशेषणस्य व्यर्थत्वात् । उपमानभूतेति । यत्रोपमानभूतस्य धर्मिणोऽन्यस्या- थस्य गम्यमानत्व तत्र समासोक्ति , न साक्षादुपादान इत्यर्थः । क्वचिदिति । बभ्रव कपिलाः। एतद् दावाग्निं *(विशेषाः + + + +2 ) लक्षणमर्थ प्रतिपादयतीते धर्मिधर्मोभयात्मत्वम् । एवं हरिणा हरिता मृगाश्च । जटा मूलानि केशसन्निवेशाश्च । वल्कल वृक्षत्वक् तत्कृत च वासः । कपिलाः पिज़ला मुनिविशेषा(च)। आरोपविषयबहुत्वादारोप्यमाणानामपि बहुत्वम् । [९१] केसरिण बकुलपुष्पवन्त सिह च । वसन्त माधव निवसन्त च । अभिमानो धारा- धिरूढो मानो महाप्रमाणश्च । दुर्वारणोऽशक्यवारणो दुष्टश्च करी । मत्तो मत्सकाशात् समदश्च । अभिमान इति न तथा हृदयङ्गम. पाठ. । अन्योन्यमिति वसन्तमित्यस्य केसरिणामिति विशे- षणं, सिहपक्षे च केसरिणमित्यस्य वसन्तमिति । रूप्येति यः केसरी प्रतीत स वसन्तस्य रूपकत्वेन न ताटस्थ्येन । एव वसन्तमित्यस्य निवसनार्थयोगेऽपि वसन्तार्थ केसरिणो रूपकत्वेन योजनीयः । इत्थमेव दुर्वारणाभिमानयोर्वाच्यम् । विशेष्यत्वेन रूप्यत्वेन च स्वतन्त्रत्व, तद्विपं- ययेण परतन्त्रत्वम् । विशेष्याद्यात्मकेति । आदिग्रहणेन रूप्यरूपकभावो गृह्यते । तिलक- स्तरुविशेषस्तिलकश्च विशेषकः । तदभिव्यक्तिरुभयार्थाभिव्यक्तिः । तयोरुभयोरर्थयोः । गुणवन्तो रज्जयुक्ता अपि घटकाः सङ्घटयितारो ह्रस्वाश्च घटा । पार्थिवा राजानः, नतु वक्ष्यमाणयुक्त्या पृथिवीविकारा व्याख्येया • गुणवत्त्वघटकत्वयोरिति । यद्यप्यत्र समीहितसिद्धौ हेतुत्वेन व्यवस्थितस्य घट(का) इत्यस्य पार्थिवा इति प्रति विशेषणत्व, तथापि कूप इवेत्युपमासामर्थ्याद् विशेष्यत्वमपि घटते॥

  • विशेषणं सन्नकुल' इति पाठ्यस्यानरेखान्तर्गतम् .