पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराजानकमहिमभट्टकृत व्यक्तिववेकः ।। प्रथमो विमर्शः। अनुमानेऽन्तर्भाव सर्वस्यैव ध्वनैः प्रकाशयतुम् ।। व्याक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ।। १ ।। युक्तोऽयमात्मसदृशान् प्रति में प्रयलो नास्त्येव तज्जगति सर्वमनोहरं यत् ।। केचिज्ज्वलान्त विकसन्त्यपरे निमील- न्त्यन्ये यदभ्युदयभाजि जगत्प्रदीधे ।। २ । इह सम्प्रतिपत्तितोऽन्यथा वा ध्वनिफारस्य वचोविवेचनं नः । नियतं यशसे प्रपत्स्यते यन्महतां सस्तव एव गौरवाय ।। ३ ।। सहसा यशोऽभिसर्तुं समुद्यतादृष्टदर्पणा मम धीः । स्वालङ्कारविकल्पग्रकल्पने वेत्ति कथमिवाद्यम् ॥ ४ ॥ ध्वनिवर्मन्यतिगहने स्खलितं वाण्याः पदे पदे सुलभम् । रभसेन यत् प्रवृत्ती प्रकाशकं चन्द्रिका दृवै ।। ९ ।।। किन्तु तदवधीय गुणलेशे सततमवदितैभव्यम् । परिपवनवदथवा ते जात्यैव न शिक्षिताःतुषग्रहणम् ॥ ६ ॥ तत्र ध्वनेरेव तावलक्षणं वक्तव्यम् । कोऽयं ध्वानन मेति । तथ ध्वनिका- रेणैवतं । तद्यथा---- “यत्रार्थः शब्दो बा तमर्थमुपसर्जनीकृतवार्थी । व्यङ्गः काव्यविशेषः स ध्वनिरिति सूभिः कथितः ।। इति । एतच विविध्यमानमनुमानस्यैव सङ्गच्छते, नान्यस्य । तथा हि-अर्थस्य तावदुपसर्जनीकृतात्मत्वमनुपादेयमेव । तत्यार्थान्तरप्रतीत्यर्थमुपात्तस्य तद्याभिचारा- भावात् । न ह्यग्न्यादिसिद्धौ धूमादिरुपदीयमानो गुणतामतिवर्तते । तस्य तन्मात्र-